શ્રીહરિવાક્યસુધાસિંધુ - સદ્‍ગુરુ શ્રી શતાનંદ સ્વામી દ્વારા રચિત સંસ્કૃત રૂપાંતરણ

तरंग ४० - गढ़डा प्रथम ४०#


शकाब्दे विक्रमार्कस्य रसाश्ववसुभूमिते । चतुर्थ्यां तपसः शुक्ले वचोऽमृतमिदं हरेः ॥१॥
तत्र दुर्गपुरे दुर्ग उत्तमस्य स भूपतेः । न्यषीददुत्तमे पीठे पिचुमन्दतरोरधः ॥२॥
सिताम्बरधरः पीतपुष्पहारादिभूषितः । वृतो मुनिगणैर्भक्तैर्नानादेशागतैः स्वकैः ॥३॥
मुक्तानन्दस्तमानम्य पप्रच्छ प्राञ्जलिर्मुनिः । समाधिर्द्विविधः स्वामिन् स्मर्यते योगवेदिभिः ॥४॥
सविकल्पो निर्विकल्पश्चेति तौ य उपागताः । उभयेषां पृथक्तेषां लक्ष्माणि ब्रूहि मेऽञ्जसा ॥५॥
इति पृष्टो हरिस्तेन तमुवाच मुने ! शृणु । सविकल्पस्थितिमतां वच्मि लक्षणमादितः ॥६॥
उपासकानां येषां स्यात् कृष्णमूर्तौ मनःस्थितिः । शुभा एव हि सङ्कल्पास्तेषां स्युर्नेतरे क्वचित् ॥७॥
स्याम तुल्या नारदेन सनकेन शुकेन वा । तपः कुर्याम मुनिभिर्गत्वा वा बदरीवनम् ॥८॥
गत्वा श्वेताह्वयं द्वीपं तपस्तत्र विधाय च । भवेम वा श्वेतमुक्तैः समा आहारवर्जिताः ॥९॥
समाधिभाजां येषां स्युर्विकल्पा ईदृशाः शुभाः । योगशास्त्रे त एवोक्ताः सविकल्पसमाधयः ॥१०॥
समाधिभाजां येषां तु विकल्पानुदयो हृदि । ये चाप्याक्षरसाधर्म्यं श्रीकृष्णे मग्नमानसाः ॥११॥
कृष्णभक्तास्त एवोक्ता निर्विकल्पसमाधयः । श्रुत्वेति वाक्यं स हरेर्मुनिर्भूयस्तमब्रवीत् ॥१२॥
भक्तिश्चोपासना शास्त्रे वर्णिते प्राप्त्ये तव । तयोर्भेदमपि स्वामिन् प्रसङ्गाद्वक्तुमर्हसि ॥१३॥
तमब्रवीदथ हरिर्मुने ! शृणु वदामि ते । पर्यायशब्दौ द्वावेतौ भक्तिश्चोपासना क्वचित् ॥१४॥
क्वचित्त्वस्त्युभयोर्भेदः शब्दयोस्तं च कीर्तये । प्रेम्णा कृष्णस्य भजनं नवधा भक्तिरुच्यते ॥१५॥
श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥१६॥
उपासना तु श्रीकृष्णे सदा साकारभावना । ब्रह्मीभूतस्यापि भवेत् स्वस्य दृढतरान्तरे ॥१७॥
श्रुतिस्मृतिप्रमावाक्यैः सा निराकारवादिनाम् । न क्वापि प्राप्नुयाद्ध्रासं प्रत्युत स्याद्दृढैव हि ॥१८॥
साकारनिष्ठयेदृश्या कृष्णस्यैवान्तिके सदा । स्थितिः सेवकधर्मेण कथितोपासना बुधैः ॥१९॥

उपासनाया इति तेऽथ भक्तेर्मया पृथक्त्वं गदितं सुबुद्धे ! ।
श्रुत्वेति वाक्यं स्वगुरोः सुधाभं मुनिस्तुतोषाप्यपरे च भक्ताः ॥२०॥


इति श्रीहरिवाक्यसुधासिन्धौ शतानन्दविरचिते चत्वारिंशस्तरङ्गः ॥४०॥

તરંગ ૪૦ - ગઢડા પ્રથમ ૪૦#


વિક્રમ સંવત્ (રસ-૬, અશ્વ-૭, વસુ-૮, ભૂમિ-૧) ૧૮૭૬માં, માઘ માસના શુક્લ પક્ષની ચતુર્થી તિથિમાં, આ હરિનું વચનરૂપ અમૃત (પ્રકટ થયું) છે ॥૧॥

ત્યાં દુર્ગપુર નામના સ્થાનમાં, તે ઉત્તમ ભૂપતિ (દાદાખાચર)ના દુર્ગમાં, તેઓ ઉત્તમ પીઠ પર, પિચુમંદ (લીમડા)ના વૃક્ષની નીચે, બેસી ગયા ॥૨॥

શ્વેત વસ્ત્ર ધારણ કરેલા, પીળાં પુષ્પમાળાઓ વગેરેથી ભૂષિત, પોતાના ભક્તો તથા વિવિધ દેશોમાંથી આવેલા મુનિગણોથી ઘેરાયેલા હતા ॥૩॥

મુક્તાનંદ મુનિએ તેઓને નમસ્કાર કરીને, અંજલિ બાંધીને પ્રશ્ન કર્યો— “હે સ્વામિન્! સમાધિ બે પ્રકારની યોગવેત્તાઓ દ્વારા સ્મરણ કરવામાં આવે છે” ॥૪॥

સવિકલ્પ અને નિર્વિકલ્પ— આ બંનેને જે પ્રાપ્ત થાય છે, તે બંનેના પૃથક્-પૃથક્ લક્ષણ મને સરળતાપૂર્વક કહો” ॥૫॥

આ રીતે તેઓના દ્વારા પૂછવામાં આવતાં હરિએ તેઓને કહ્યું— “હે મુને! સાંભળો, હું પહેલાં સવિકલ્પ સ્થિતિવાળા લોકોનું લક્ષણ કહું છું” ॥૬॥

જેમાં ઉપાસકોનું મન શ્રીકૃષ્ણની મૂર્તિમાં સ્થિત રહે છે, તેમના સંકલ્પ માત્ર શુભ જ હોય છે, અન્ય કદી નથી હોતા ॥૭॥

“અમે નારદના સમાન, સનકના સમાન અથવા શુકના સમાન હોઈએ; અથવા મુનિઓ સાથે જઈને બદરિકાશ્રમમાં તપ કરીએ” ॥૮॥

“અથવા શ્વેતદ્વીપમાં જઈને ત્યાં તપ કરીને, શ્વેતમુક્તોના સમાન, આહારનો ત્યાગ કરનારા બનીએ” ॥૯॥

જે સમાધિને પ્રાપ્ત પુરુષોના આવા શુભ વિકલ્પ હોય છે, તેઓ જ યોગશાસ્ત્રમાં સવિકલ્પ સમાધિવાળા કહેવાયા છે ॥૧૦॥

પરંતુ જેઓ સમાધિમાં સ્થિત છે, જેમના હૃદયમાં વિકલ્પ (દ્વંદ્વ) નો ઉદય નથી થતો, અને જેઓ અક્ષર-સાધર્મ્યને પ્રાપ્ત થઈને શ્રીકૃષ્ણમાં મગ્ન મનવાળા છે ॥૧૧॥

તેઓ જ શ્રીકૃષ્ણના ભક્ત નિર્વિકલ્પ સમાધિવાળા કહેવાયા છે. આ રીતે હરિનું વચન સાંભળીને તે મુનિ પુનઃ તેઓને બોલ્યા ॥૧૨॥

“હે સ્વામિન્! શાસ્ત્રમાં આપની પ્રાપ્તિ માટે ભક્તિ અને ઉપાસના વર્ણવેલી છે; તે બંનેનો ભેદ પણ પ્રસંગવશ કહેવા યોગ્ય છે” ॥૧૩॥

ત્યારે હરિએ તેઓને કહ્યું— “હે મુને! સાંભળો, હું તમને કહું છું— આ બંને ભક્તિ અને ઉપાસના ક્યારેક-ક્યારેક પર્યાયવાચી શબ્દો છે” ॥૧૪॥

“અને ક્યારેક-ક્યારેક આ બંને શબ્દોમાં ભેદ પણ હોય છે, તે હું કહું છું— પ્રેમપૂર્વક શ્રીકૃષ્ણનું ભજન ‘નવધા ભક્તિ’ કહેવાય છે॥૧૫॥

“વિષ્ણુનું શ્રવણ, કીર્તન, સ્મરણ, પાદસેવન, અર્ચન, વંદન, દાસ્ય, સખ્ય અને આત્મનિવેદન— આ (નવ પ્રકાર) છે” ॥૧૬॥

“અને ઉપાસના તો શ્રીકૃષ્ણમાં સદા સાકારભાવના છે; બ્રહ્મલીન/બ્રહ્મરુપ પુરુષના પણ પોતાના અંતરમાં આ અત્યંત દૃઢ રહે છે” ॥૧૭॥

“શ્રુતિ (વેદ), સ્મૃતિ (પુરાણ-ઇતિહાસ) અને પ્રમાણ-વાક્યો દ્વારા, નિરાકારવાદીઓ (જેઓ ઈશ્વરને માત્ર નિરાકાર માને છે) ના તર્કોથી તે (વિગ્રહ અથવા સગુણ રૂપ)ની મહિમા ક્યાંય પણ ઓછી નથી થતી, પરંતુ તે વધુ જ દૃઢ (પુષ્ટ) થાય છે.” ॥૧૮॥

“આ પ્રકારની સાકારનિષ્ઠાથી, શ્રીકૃષ્ણની જ સમીપ સદા સેવકભાવે સ્થિત રહેવું— આ બુદ્ધિમાનો દ્વારા ઉપાસના કહેવાઈ છે” ॥૧૯॥

હે સુબુદ્ધે! આ રીતે મેં તને ઉપાસના અને ભક્તિનો પૃથક્-પૃથક્ ભેદ કહ્યો. આ અમૃત સમાન વચનને પોતાના ગુરુ પાસેથી સાંભળીને મુનિ તથા અન્ય ભક્તો પણ સંતુષ્ટ થયા ॥૨૦॥


આ પ્રકારે શ્રીહરિવાક્યસુધાસિન્ધુમાં, શતાનંદ દ્વારા રચિત ચાલીસમો તરંગ સમાપ્ત થયો ॥૪૦॥

तरंग ४० - गढ़डा प्रथम ४०#


विक्रम संवत् (रस-६, अश्व-७, वसु-८, भूमि-१) १८७६ में, माघ मास के शुक्ल पक्ष की चतुर्थी तिथि में, यह हरि का वचनरूप अमृत (प्रकट हुआ) है ॥१॥

वहाँ दुर्गपुर नामक स्थान में, उस उत्तम भूपति(दादाखाचर) के दुर्ग में, वे उत्तम पीठ पर, पिचुमन्द (नीम) के वृक्ष के नीचे, बैठ गए ॥२॥

श्वेत वस्त्र धारण किए हुए, पीत पुष्पमालाओं आदि से भूषित, अपने भक्तों तथा विविध देशों से आए हुए मुनिगणों से परिवेष्टित थे ॥३॥

मुक्तानन्द मुनि ने उन्हें नमस्कार करके, अञ्जलि बाँधकर प्रश्न किया— “हे स्वामिन्! समाधि दो प्रकार की योगवेत्ताओं द्वारा स्मरण की जाती है” ॥४॥

सविकल्प और निर्विकल्प— ये दोनों को जो प्राप्त होते हैं, उन दोनों के पृथक्-पृथक् लक्षण मुझे सरलतापूर्वक कहिए” ॥५॥

इस प्रकार उनसे पूछे जाने पर हरि ने उनसे कहा— “हे मुने! सुनो, मैं पहले सविकल्प स्थिति वाले लोगों का लक्षण कहता हूँ” ॥६॥

जिन उपासकों का मन श्रीकृष्ण की मूर्ति में स्थित रहता है, उनके संकल्प केवल शुभ ही होते हैं, अन्य कभी नहीं होते ॥७॥

“हम नारद के समान, सनक के समान अथवा शुक के समान हों; अथवा मुनियों के साथ जाकर बदरिकाश्रम में तप करें” ॥८॥

“या श्वेत नामक द्वीप में जाकर वहाँ तप करके, श्वेतमुक्तों के समान, आहार का त्याग करने वाले बनें” ॥९॥

जिन समाधि को प्राप्त पुरुषों के ऐसे शुभ विकल्प होते हैं, वे ही योगशास्त्र में सविकल्प समाधि वाले कहे गए हैं ॥१०॥

परन्तु जिन समाधि में स्थित जनों के हृदय में विकल्प का उदय नहीं होता, और जो अक्षर-साधर्म्य को प्राप्त होकर श्रीकृष्ण में मग्न मन वाले हैं ॥११॥

वे ही श्रीकृष्ण के भक्त निर्विकल्प समाधि वाले कहे गए हैं। इस प्रकार हरि का वचन सुनकर वह मुनि पुनः उनसे बोला ॥१२॥

“हे स्वामिन्! शास्त्र में आपकी प्राप्ति के लिए भक्ति और उपासना वर्णित हैं; उन दोनों का भेद भी प्रसंगवश कहने योग्य है” ॥१३॥

तब हरि ने उनसे कहा— “हे मुने! सुनो, मैं तुमसे कहता हूँ— ये दोनों भक्ति और उपासना कभी-कभी पर्यायवाची शब्द हैं” ॥१४॥

“और कभी-कभी इन दोनों शब्दों में भेद भी होता है, उसे मैं कहता हूँ— प्रेमपूर्वक श्रीकृष्ण का भजन ‘नवधा भक्ति’ कहा जाता है॥१५॥

“विष्णु का श्रवण, कीर्तन, स्मरण, पादसेवन, अर्चन, वन्दन, दास्य, सख्य और आत्मनिवेदन— ये (नौ प्रकार) हैं” ॥१६॥

“और उपासना तो श्रीकृष्ण में सदा साकारभावना है; ब्रह्मीभूत पुरुष के भी अपने भीतर यह अत्यन्त दृढ़ रहती है” ॥१७॥

“श्रुति (वेद), स्मृति (पुराण-इतिहास) और प्रमाण-वाक्यों के द्वारा, निराकारवादियों (जो ईश्वर को केवल निराकार मानते हैं) के तर्कों से उस (विग्रह या सगुण रूप) की महिमा कहीं भी कम नहीं होती, बल्कि वह और भी दृढ़ (पुष्ट) ही होती है।” ॥१८॥

“इस प्रकार की साकारनिष्ठा से, श्रीकृष्ण के ही समीप सदा सेवकभाव से स्थित रहना— यह बुद्धिमानों द्वारा उपासना कही गई है” ॥१९॥

हे सुबुद्धे! इस प्रकार मैंने तुझसे उपासना और भक्ति का पृथक्-पृथक् भेद कहा। इस अमृत के समान वचन को अपने गुरु से सुनकर मुनि तथा अन्य भक्त भी संतुष्ट हुए ॥२०॥


इस प्रकार श्रीहरिवाक्यसुधासिन्धु में, शतानन्द द्वारा रचित चालीसवाँ तरंग समाप्त हुआ ॥४०॥

English content coming soon...

સેતુમાળા ટીકા - પ્રથમ આચાર્ય શ્રી રઘુવીરજી મહારાજ દ્વારા રચિત સંસ્કૃત ટીકા

तरंग ४० - गढ़डा प्रथम ४० की टीका#


सविकल्पं निर्विकल्पं समाधिं च उपागताः । उभयेषां लक्षणानि सुस्पष्टं यानि सन्ति हि ॥१॥
भक्तेरुपासनायाश्च यस्तु भेदोऽस्ति शास्त्रतः । तदेतदखिलं प्रोक्तं चत्वारिंशे ततः स्फुटम् ॥२॥

शकेति । शकेति पूर्वार्धं व्याख्यातम् । (१८७६) तपसो माघमासस्य । शुक्ले शुक्लपक्षे । चतुर्थ्यां तिथौ । इदम् । हरेः वचोऽमृतम् । अभूत् ॥१॥

तत्रेति । तत्र तिथौ । दुर्गपुरे। उत्तमस्य । भूपतेः। दुर्गे। पिचुमन्दतरोः । अधोऽधःप्रदेशवर्तिन्यां वेदिकायाम् । उत्तमे स्वास्तरणाच्छादित्वाच्छ्रेष्ठे। पीठे मञ्चासने । स श्रीहरिः । न्यषीदत् स्वावासादागत्य प्रातरुपविवेश ॥२॥

तत्रोपविष्टं श्रीहरिं वर्णयति । सितेति । सिताम्बरधरः । पीतपुष्पहारादिभूषितः पीतपुष्पमयहारशेखरविराजमानः । नानादेशागतैः । स्वकैः । मुनिगणैः साधुसमूहैः । भक्तैर्गृहिभक्तजनैश्च । वृतः सभायां परिवेष्टितः ॥३॥

मुक्तानन्द इति । सविकल्प इति । मुक्तानन्द । मुनिः । प्राञ्जलिः सन् । तं श्रीहरिम् । आनम्य । पप्रच्छ । हे स्वामिन् ! । योगवेदिभिः सालम्बाष्टाङ्गयोगवेदितृभिर्भवदेकान्तिकभक्तैर्योगिभिः । सविकल्पः । निर्विकल्पश्च । इत्येवम् । द्विविधः । समाधिः स्मर्यते कथ्यते । तौ सविकल्पनिर्विकल्पौ समाधी । ये योगिनस्त्वद्भक्ताः । उपागताः प्राप्ताः । भवन्ति । उभयेषां द्विविधानाम् । तेषां योगिनां त्वद्भक्तानाम् । लक्ष्माणि लक्षणानि । पृथक् भिन्नभिन्नतया । अञ्जसा तत्त्वतः । मे मह्यम् । ब्रूहि । पूर्वतरङ्गे तत्तन्मुक्तस्थज्ञानेन सविकल्पनिर्विकल्पे स्थिती उक्ते ते श्रुत्वा साम्प्रतं तल्लक्षणानि जिज्ञासुः स मुनिस्तानि पृष्टवानिति न पूर्वतरङ्गोक्तार्थे नास्य पौनरुक्त्यम् ॥४-५॥

इतीति । इत्यमुना प्रकारेण । तेन मुक्तानन्दमुनिना । पृष्टः । हरिः । तं मुक्तानन्दमुनिम् । उवाच । हे मुने ! । आदितः प्रथमतः । सविकल्पस्थितिमताम् । लक्षणम् । वच्मि । शृणु तत्त्वमाकर्णय ॥६॥ उपासकानामिति । येषाम् । उपासकानामेकान्तिकधर्मेण भगवन्तं भजमानानां ज्ञानिमुक्तानाम् । कृष्णमूर्त्तौ । मनःस्थितिः । स्यात् । तेषाम् । शुभा एव । सङ्कल्पाः । स्युः । इतरे अशुभाः सङ्कल्पाः । क्वचित् कदाचिदपि । न स्युः ॥७॥ तदीयशुभसङ्कल्पानाह द्वाभ्याम् । स्यामेति । वयम् । नारदेन देवर्षिणा । अथवा । सनकेन । एकवचनं चतुर्णां श्रुतादितुल्यत्वेन । ब्रह्मपुत्रैः सनकादिभिरित्यर्थः । अथवा । शुकेन बादरायणिना । तुल्याः समानाः । स्याम भवेम । अथवा । बदरीवनं श्रीनरनारायणभगवदाश्रमम् । गत्वा प्राप्य । मुनिभिस्तत्रत्यतन्वादिऋषिभिः सह । तपः । कुर्याम ॥८॥

गत्वेति । अथवा । श्वेताह्वयम् । द्वीपम् । गत्वा । तत्र श्वेतद्वीपे । तपः । विधाय । आहारवर्जिता भगवदितरसकलेन्द्रियविषयभोगवर्जिताः । श्वेतमुक्तैः समास्तुल्याः । भवेम । चकारादक्षरधाम्नि वा गत्वाक्षरमुक्तैः साकं भगवत्सेवायां तिष्ठेमेति ज्ञेयम् ॥९॥

समाधिभाजामिति । येषाम् । समाधिभाजां श्रीहरौ मनोनैश्चल्यस्थितिरुपसमाधिमताम् । ईदृशा एवंविधाः । शुभाः । सङ्कल्पाः । स्युः । ते इत्थंभूतसङ्कल्पवन्त एव । योगशास्त्रे । सविकल्पसमाधयः । उक्ताः । वागादीन्द्रियव्यापारस्य सङ्कल्पपूर्वत्वात् स्वाश्रितानां पुर इत्थं भाषणादि कुर्वन्तीति तदेव सविकल्पसमाधिभाजां लक्षणमिति भावः ॥१०॥ अथ निर्विकल्पसमाधिमतां लक्षणमाह सार्धेन । समाधीति । येषाम् । समाधिभाजाम् । भगवदेकान्तिकोपासनेन मनोनिश्चलतारूपसमाधिमतां महामुक्तानामित्यर्थः । हृदि मानसे । विकल्पानुदयः पूर्वोक्तशुभसङ्कल्पस्याप्यनुद्भवः । भवेत् । ये समाधिभाजः । अक्षरसाधर्म्यं तदैक्यभावनयाक्षरब्रह्मणः समानधर्मताम् । आप्याधिगम्य । श्रीकृष्णे । मग्नमानसाः सर्वदाविच्छेदेन संलग्नमनोवृत्तयश्च । स्युः ॥११॥

कृष्णेति । ते एवंविधाः । कृष्णभक्ता एव । निर्विकल्पसमाधयः । उक्ताः वागादीन्द्रियव्यापारस्य सङ्कल्पपूर्वत्वात् सङ्कल्पनिवृत्त्या वागादीन्द्रियव्यापारस्यापि निवृत्तत्वात् स्वाश्रितानां पुरोऽपि भाषणादिपरित्यज्य केवलं भगवत्स्वरूपे निमग्नतयावस्थानं निर्विकल्पसमाधिभाजां लक्षणमिति भावः । इत्येवंविधम् । हरेः । वाक्यम् । श्रुत्वा । सः । मुनिर्मुक्तानन्दसाधुः । भूयः पुनरपि । तं श्रीहरिम् । अब्रवीत् ॥१२॥

भक्तिरिति । हे स्वामिन् ! । भक्तिः। उपासना च । इति द्वे। तव। प्राप्तये। शास्त्रे श्रीभागवतादिसद्ग्रन्थे । वर्णिते क्वचिद्भक्तिर्वर्णितास्ति क्वचिदुपासना चेत्यर्थः । तयोर्भक्त्युपासनयोः । भेदमपि । प्रसङ्गात् । वक्तुम् । अर्हसि । ‘प्रसङ्गस्तूपासकानां येषां स्या’ दिति ‘कृष्णभक्तास्त एवोक्ता’ इति च श्रुत्वा शास्त्रे क्वचित् कृष्णप्राप्तेर्हेतुत्वेनोक्तामुपासनां क्वचिद्भक्तिं च स्मृत्वा तद्भेदज्ञानबुभुत्सेति ॥१३॥

तमिति । अथानन्तरम् । हरिः । तं मुक्तानन्दमुनिम् । अब्रवीत्। हे मुने ! । ते तुभ्यम्। वदामि । शृणु । क्वचित् । भक्तिः । उपासना च। एतौ । द्वौ शब्दौ । पर्यायशब्दौ । भक्तिशब्दस्यापरः पर्याय उपासना तस्याश्च भक्तिशब्द इत्येवं तयोरेक एवार्थ इत्यर्थः ॥१४॥

क्वचिदिति । क्वचित्तु । उभयोः । शब्दयोः । भेदः । अस्ति । तं भेदम् । कीर्तये तुभ्यं कथयामि । प्रेम्णा गाढानुरागेण । नवधा श्रवणादिनवप्रकारेण । कृष्णस्य । भजनं सेवनम् । भक्तिः । उच्यते ॥१५॥

श्रवणादिनवप्रकारानाह ।श्रवणमिति । विष्णोः श्रीकृष्णस्य । श्रवणम् । कथाया इति शेषः । कीर्तनम् । तद्गुणचरित्राणामिति शेषः । स्मरणं तत्स्वरूपचिन्तनं नामोच्चारणं च । पादसेवनम् । अर्चनम् । वन्दनम् । दास्यम् । सख्यं तेन सह मित्रत्वम् । आत्मनिवेदनं सर्वथा तदधीनत्वम् ॥१६॥

उपासनेति । ब्रह्मीभूतस्य भगवदेकान्तिकभक्त्या ब्रह्मभावं प्राप्तस्यापि । स्वस्यात्मनः । भक्तस्येत्यर्थः । अन्तरेऽन्तःकरणे । दृढतरा सुस्थिरा । या । श्रीकृष्णे । सदा । साकारभावना श्रीकृष्णः सदा किशोरवयाः पीताम्बरादिधरः अधरार्पितवंशीविभूषितपाणिः मदनमनोहरसकलावयः अक्षरभावापन्नमुक्तवृन्दसंसेवितपदाम्बुजोऽस्तीति संस्कारः । सा तु । उपासना । भवेत् ॥१७॥

श्रुतीति । सा श्रीकृष्णे सदा साकारभावना । निराकारवादिनां श्रीकृष्णमाकृतिवर्जितं वदतां शुष्कवेदान्तिनाम् । श्रुतिस्मृतिप्रमावाक्यैः कल्पितविपरितार्थैस्तदुक्तैः श्रुतिस्मृतिप्रमाणवचनैरित्यर्थः । क्वापि कदाचिदपि । ह्रासं विनाशम् । न प्राप्नुयात् । प्रत्युत किन्तु । दृढैव । स्यात् । यथार्थतदर्थावगमनेन दृढा सत्यतिवृद्धा भवेदित्यर्थः ॥१८॥

साकारेति । ईदृश्या । साकारनिष्ठया । कृष्णस्य । अन्तिके समीपे एव । सेवकधर्मेण दासभावेन सह । सदा । स्थितिः । बुधैर्भगवदेकान्तिकोपासकनारदादिमुनिभिः । उपासना कथिता । उप समीपे आसना स्थितिरुपासनेत्यन्वर्थत्वादिति भावः ॥१९॥

उपासनाया इति । हे सुबुद्धे ! । इत्यमुना प्रकारेण । भक्तेः । अथ च । उपासनायाः । पृथक्त्वं भिन्नत्वम् । मया । गदितम् । इत्येवंविधम् । सुधाभममृतसन्निभम् । स्वगुरोः श्रीहरेः । वाक्यम् । श्रुत्वा । मुनिर्मुक्तानन्दो मुनिः । तुतोष । अपरे सभोपविष्टा अन्येऽपि । भक्तास्त्यागिगृहिणो भक्तजनाश्च । तुतुषुः ॥२०॥

सविकल्पं निर्विकल्पं समाधिमास्थितास्तु ये । स्वभक्तास्तल्लक्षणानि येनोक्तानि समासतः ॥१॥
भक्तेरुपासनायाश्च स्वस्य भेदोऽपि येन तु । वर्णितः स हरिर्भक्ति दत्तात् स्वैकान्तिकीं तु मे ॥२॥


इति श्रीमदेकान्तिकधर्मप्रवर्तकश्रीहर्येकान्तिकोपासकहरिकृष्णभग वत्सूनुरघुवीराचार्यविरचितायां सेतुमालाख्यायां श्रीहरिवाक्यसुधासिन्धुटीकायां चत्वारिंशस्तरङ्गः ॥४०॥

તરંગ ૪૦ - ગઢડા પ્રથમ ૪૦ ની ટીકા#


शकेति । શક સંબંધિત પૂર્વાર્ધનું વિવેચન કરવામાં આવી ચૂક્યું છે। (૧૮૭૬) તપ નામે પ્રસિદ્ધ માઘ માસમાં, શુક્લ એટલે કે શુક્લ પક્ષમાં, ચતુર્થી તિથિએ, આ હરિનું વચનરૂપ અમૃત પ્રગટ થયું ॥૧॥

तत्रेति । તે તિથિએ, દુર્ગપુર નામના સ્થળમાં, ઉત્તમ ભૂપતિ (દાદાખાચર)ના દુર્ગમાં, પિચુમંદ (લીંબડો) વૃક્ષની નીચે આવેલ પ્રદેશમાં, વેદિકા પર, ઉત્તમ એટલે કે સ્વાસ્તરણ વગેરે થી આવરિત શ્રેષ્ઠ પીઠરૂપ ઊંચા સિંહાસન (મંચ) પર, તે શ્રીહરિ પોતાના નિવાસથી આવીને પ્રાતઃકાળે બેસ્યા ॥૨॥

सितेति । શ્વેત વસ્ત્ર ધારણ કરેલા, પીળા પુષ્પોની માળા વગેરે થી અલંકૃત, પીળા પુષ્પમય હારથી શોભિત, વિવિધ દેશોમાંથી આવેલા, પોતાના મુનિગણ એટલે સાધુસમૂહ તથા ગૃહસ્થ ભક્તોથી ઘેરાયેલા, સભામાં સ્થિત હતા ॥૩॥

मुक्तानन्द इति । મુક્તાનંદ નામના મુનિ, અંજલિ બાંધીને, તે શ્રીહરિને નમસ્કાર કરીને પૂછે છે— હે સ્વામિન! યોગને જાણનારા, સાલંબ અષ્ટાંગયોગના જ્ઞાતા, તમારા એકાંતિક ભક્તરૂપ યોગીઓ દ્વારા, સવિકલ્પ અને નિર્વિકલ્પ— આ રીતે બે પ્રકારની સમાધિ કહેવામાં આવે છે। તે બંને પ્રકારની સમાધિઓ, જે તમારા ભક્ત યોગીઓ પ્રાપ્ત કરે છે, તે બંનેના, તે યોગી-ભક્તોના, લક્ષણોને, અલગ-અલગ રીતે, સરળતાથી, મને કહો। પૂર્વ તરંગમાં મુક્તાવસ્થા વગેરેના જ્ઞાનથી સવિકલ્પ અને નિર્વિકલ્પ સ્થિતિઓ જણાવવામાં આવી હતી, તે સાંભળીને હવે તેમના લક્ષણોને જાણવા ઇચ્છાથી આ મુનિએ પૂછ્યું છે; તેથી તેમાં પૂર્વ કહેવતની પુનરુક્તિ નથી ॥૪-૫॥

इतीति । આ રીતે, તે મુકતાનંદ મુનિ દ્વારા પૂછાતા, હરિએ તે મુનિને કહ્યું— હે મુનિ! આરંભથી, સવિકલ્પ સ્થિતિ ધરાવતા વ્યક્તિઓના લક્ષણ હું કહું છું, તું તત્ત્વ સાંભળ ॥૬॥

उपासकानामिति । જે ઉપાસકોના, એકાંતિક ધર્મથી ભગવાનનું ભજન કરતા જ્ઞાનયુક્ત મુક્ત પુરુષોના, શ્રીકૃષ્ણની મૂર્તિમાં મનની સ્થિતિ હોય છે, તેમના માત્ર શુભ સંકલ્પો જ હોય છે, અન્ય અશુભ સંકલ્પો ક્યારેય થતા નથી ॥૭॥

स्यामेति । તેવા શુભ સંકલ્પો આ રીતે કરે છે— અમે દેવર્ષિ સમાન, અથવા બ્રહ્મપુત્ર સનકાદિ સમાન, અથવા વ્યાસપુત્ર શુક સમાન બનીએ; અથવા બદરીવન, જે નરનારાયણ ભગવાનનું આશ્રમ છે, ત્યાં જઈને, ત્યાંના મુનિઓ સાથે, તપ કરીએ ॥૮॥

गत्वेति । અથવા શ્વેત નામના દ્વીપમાં જઈને, ત્યાં તપ કરીને, આહારનો ત્યાગ કરનાર એટલે ભગવાન સિવાયના સર્વ ઇન્દ્રિય વિષયોના ભોગોનો ત્યાગ કરનાર બનીને, શ્વેતમુક્તો સમાન બનીએ; ‘ચ’ (શ્લોકમાં આવેલ શબ્દ) થી આ અર્થ થાય છે કે (ભક્ત) અક્ષરધામમાં જઈને અક્ષરમુક્તો સાથે ભગવાનની સેવામાં સ્થિત રહે— એમ સમજવું જોઈએ ॥૯॥

समाधिभाजामिति । જે સમાધિ પ્રાપ્ત, શ્રીહરિમાં મનની નિશ્ચળ સ્થિતિરૂપ સમાધિ ધરાવતા પુરુષોના આવા પ્રકારના શુભ સંકલ્પો હોય છે, તેઓ એવા સંકલ્પવાળા જ યોગશાસ્ત્રમાં સવિકલ્પ સમાધિવાળા કહેવાયા છે; કારણ કે વાણી વગેરે ઇન્દ્રિયોનું પ્રવર્તન સંકલ્પપૂર્વક થાય છે, તેથી તેઓ પોતાના આશ્રિતોના સમક્ષ આ રીતે બોલવાનું વગેરે કરે છે— આ જ સવિકલ્પ સમાધિ ધરાવતા લોકોનું લક્ષણ છે ॥૧૦॥

समाधीति । હવે નિર્વિકલ્પ સમાધિ ધરાવતા લોકોનું લક્ષણ કહેવામાં આવે છે— જે સમાધિ પ્રાપ્ત, ભગવાનની એકાંતિક ઉપાસનાથી મનની નિશ્ચળતા રૂપ સમાધિ ધરાવતા મહાન મુક્ત પુરુષોના, હૃદયમાં, અગાઉ જણાવેલા શુભ સંકલ્પનો પણ ઉદય થતો નથી, અને જે અક્ષરના સાધર્મ્યને, એટલે કે તેના સમાન ધર્મને, પ્રાપ્ત થઈને, શ્રીકૃષ્ણમાં મગ્ન મનવાળા, સતત અવિચ્છિન્ન રીતે જોડાયેલા (પૂર્ણ રીતે લીન) મનવૃત્તિ ધરાવતા હોય છે ॥૧૧॥

कृष्णेति । તે આવા પ્રકારના જ કૃષ્ણના ભક્ત, નિર્વિકલ્પ સમાધિવાળા કહેવાયા છે; કારણ કે વાણી વગેરે ઇન્દ્રિયોનું પ્રવર્તન સંકલ્પપૂર્વક થાય છે, અને સંકલ્પની નિવૃતિ થવાથી વાણી વગેરેનું પ્રવર્તન પણ નિવૃત્ત થઈ જાય છે, તેથી તેઓ પોતાના આશ્રિતોના સમક્ષ પણ ભાષણ વગેરેનો ત્યાગ કરીને માત્ર ભગવાનના સ્વરૂપમાં લીન થઈને સ્થિત રહે છે— આ જ નિર્વિકલ્પ સમાધિવાળાઓનું લક્ષણ છે। આ પ્રકારના હરિના વચન સાંભળી તે મુનિ ફરીથી તે શ્રીહરિને કહે છે ॥૧૨॥

भक्तिरिति । (મુક્તાનંદ સ્વામી કહે છે—) ‘હે સ્વામિન! ભક્તિ અને ઉપાસના— આ બે માર્ગ તમારા (પરમાત્માના) પ્રાપ્તિ માટે શાસ્ત્રોમાં, જેમ કે શ્રીમદ્ ભાગવત વગેરે સત્ ગ્રંથોમાં વર્ણવવામાં આવ્યા છે। ક્યાંક ભક્તિનું વર્ણન છે, તો ક્યાંક ઉપાસનાનું। તે બંને—ભક્તિ અને ઉપાસના—નો ભેદ (અંતર) પણ આ પ્રસંગમાં તમે કહેવાની કૃપા કરો। ‘જે ઉપાસકોનો પ્રસંગ હોય’ એવું (પૂર્વમાં) સાંભળીને અને ‘તે જ કૃષ્ણભક્ત કહેવાયા છે’ એવું સાંભળીને, શાસ્ત્રોમાં કૃષ્ણપ્રાપ્તિના સાધન તરીકે ક્યાંક ઉપાસના અને ક્યાંક ભક્તિનું વર્ણન યાદ કરીને, તે બંને વચ્ચેના ભેદને જાણવા ઇચ્છા થઈ છે’ ॥૧૩॥

तमिति । પછી હરિએ તે મુનિને કહ્યું— હે મુનિ! હું તને કહું છું, તું સાંભળ— ક્યારેક ભક્તિ અને ઉપાસના આ બંને શબ્દો પરસ્પર પર્યાય હોય છે, ભક્તિ શબ્દનો બીજો પર્યાય ઉપાસના છે અને ઉપાસનાનો પર્યાય ભક્તિ શબ્દ છે, આ રીતે બંનેનો એક જ અર્થ છે— એમ સમજવું જોઈએ ॥૧૪॥

क्वचिदिति । ક્યાંક-ક્યાંક (શાસ્ત્રોમાં) આ બંને શબ્દો (ભક્તિ અને ઉપાસના) વચ્ચે ભેદ (અંતર) પણ છે। હું તે ભેદ તને કહું છું। પ્રેમ અને ગાઢ અનુભાવ સાથે, નવ પ્રકારના શ્રવણ વગેરે દ્વારા શ્રીકૃષ્ણનું ભજન અથવા સેવા કરવી એ જ ‘ભક્તિ’ કહેવાય છે ॥૧૫॥

श्रवणमिति । તે શ્રવણ વગેરે નવ પ્રકાર આ મુજબ છે— શ્રવણ: ભગવાન વિષ્ણુ (શ્રીકૃષ્ણ)ની કથાઓ સાંભળવી। કીર્તન: તેમના ગુણો અને ચરિત્રોનું ગાન કરવું। સ્મરણ: તેમના સ્વરૂપનું સતત ચિંતન અને નામનો ઉચ્ચાર કરવો। પાદસેવન: તેમના ચરણોની સેવા કરવી। અર્ચન: પૂજન કરવું। વંદન: પ્રણામ કરવા। દાસ્ય: પોતાને દાસ માનીને સેવા કરવી। સખ્ય: તેમના સાથે મિત્રભાવ રાખવો। આત્મનિવેદન: સંપૂર્ણપણે તેમના અધિકાર હેઠળ થઈ જવું (પોતાને સમર્પિત કરી દેવું) ॥૧૬॥

उपासनिति । (હવે ઉપાસનાનો અર્થ સાંભળો—) જે બ્રહ્મીભૂત છે (અર્થાત્ જેણે ભગવાનની એકાંતિક ભક્તિ દ્વારા બ્રહ્મભાવ પ્રાપ્ત કર્યો છે), તે ભક્તના અંતઃકરણમાં શ્રીકૃષ્ણ પ્રત્યે જે અત્યંત દૃઢ અને સદા સાકાર ભાવના રહે છે, તેને ઉપાસના કહેવામાં આવે છે

તે સાકાર ભાવના (સંસ્કાર) શું છે? આ દૃઢ નિશ્ચય કે: ‘શ્રીકૃષ્ણ સદા કિશોર વયવાળા છે, પીળાં વસ્ત્ર ધારણ કરનાર છે, જેમના કરકમળોમાં હોઠો પર ધરેલી વાંસળી શોભે છે, જેમના દરેક અંગ કામદેવને પણ મોહિત કરનાર છે, અને જેમના ચરણકમળોની સેવા અક્ષરભાવ પ્રાપ્ત મુક્ત આત્માઓના સમૂહ દ્વારા કરવામાં આવી રહી છે। આવી જે અડગ ધારણા છે, તે જ ઉપાસના છે ॥૧૭॥

श्रुतीति । તે શ્રીકૃષ્ણ પ્રત્યેની જે સદા સાકાર ભાવના છે, તે નિરાકારવાદીઓ—અર્થાત્ શ્રીકૃષ્ણને આકારરહિત કહેતા શુષ્ક વેદાંતિઓ—દ્વારા આપવામાં આવેલા તર્કોથી ક્યારેય ડગતી નથી। તેઓ ભલે શ્રુતિ અને સ્મૃતિના પ્રમાણવાક્યોનો કલ્પિત અને વિપરીત અર્થ કરે, છતાં પણ (ભક્તની તે ભાવના) ક્યાંય અને ક્યારેય હ્રાસ (વિનાશ) પામતી નથી; તેના વિરુદ્ધ, તે વધુને વધુ દૃઢ જ બને છે ॥૧૮॥

साकारेति । આવી સાકાર નિષ્ઠા દ્વારા, શ્રીકૃષ્ણના નજીક, સેવકભાવથી યુક્ત થઈને, સદા સ્થિત રહેવું— આને બુદ્ધિમાન એકાંતિક ઉપાસકો ઉપાસના કહે છે; કારણ કે નજીક રહીને સ્થિત રહેવું જ ઉપાસનાનો યથાર્થ અર્થ છે ॥૧૯॥

उपासनाया इति । હે સુબુદ્ધિ! આ રીતે, ભક્તિ અને ઉપાસનાનો અલગ-અલગ ભેદ મેં કહ્યું। આ અમૃત સમાન પોતાના ગુરુ શ્રીહરિના વચન સાંભળી, મુકતાનંદ મુનિ તેમજ સભામાં બેઠેલા અન્ય ત્યાગી અને ગૃહસ્થ ભક્તો પણ સંતોષ પામ્યા ॥૨૦॥


આ રીતે શ્રીમદ્ એકાંતિકધર્મના પ્રવર્તક, શ્રીહરિના એકાંતિક ઉપાસક, હરિ કૃષ્ણ ભગવાનના પુત્ર રઘુવીરાચાર્ય દ્વારા રચિત સેતુમાલા નામની શ્રીહરિવાક્યસુધાસિંધુની ટીકા માં ચાલીસમો તરંગ સમાપ્ત થયો ॥૪૦॥

तरंग ४० - गढ़डा प्रथम ४० की टीका#


शकेति । शकसम्बन्धी पूर्वार्ध का विवेचन किया जा चुका है। (१८७६) तप के नाम से प्रसिद्ध माघ मास में, शुक्ल अर्थात् शुक्ल पक्ष में, चतुर्थी तिथि में, यह हरि का वचनरूप अमृत प्रकट हुआ ॥१॥

तत्रेति । उस तिथि में, दुर्गपुर नामक स्थान में, उत्तम भूपति(दादाखाचर) के दुर्ग में, पिचुमन्द (नीम) वृक्ष के नीचे स्थित प्रदेश में, वेदिका पर, उत्तम अर्थात् स्वास्तरण आदि से आच्छादित श्रेष्ठ पीठरूप ऊँचे सिंहासन (मंच) पर, वे श्रीहरि अपने निवास से आकर प्रातःकाल बैठ गए ॥२॥

सितेति । श्वेत वस्त्र धारण किए हुए, पीत पुष्पों की माला आदि से भूषित, पीत पुष्पमय हार से शोभायमान, विभिन्न देशों से आए हुए, अपने मुनिगण अर्थात् साधुओं के समूह से तथा गृहस्थ भक्तों से परिवेष्टित, सभा में स्थित थे ॥३॥

मुक्तानन्द इति । मुक्तानन्द नामक मुनि, अञ्जलि बाँधकर, उस श्रीहरि को नमस्कार करके, पूछते हैं— हे स्वामिन्! योग को जानने वाले, सालम्ब अष्टाङ्गयोग के ज्ञाता, आपके एकान्तिक भक्तरूप योगियों द्वारा, सविकल्प और निर्विकल्प— इस प्रकार दो प्रकार की समाधि कही जाती है। वे दोनों प्रकार की समाधियाँ, जिन्हें आपके भक्त योगी प्राप्त होते हैं, उन दोनों के, उन योगी-भक्तों के, लक्षणों को, पृथक्-पृथक् भिन्न रूप से, सरलतापूर्वक, मुझे कहिए। पूर्व तरंग में मुक्तावस्था आदि के ज्ञान से सविकल्प और निर्विकल्प स्थितियाँ कही गई थीं, उन्हें सुनकर अब उनके लक्षणों को जानने की इच्छा से इस मुनि ने पूछा है; अतः इसमें पूर्व कथन की पुनरुक्ति नहीं है ॥४-५॥

इतीति । इस प्रकार, उस मुक्तानन्द मुनि द्वारा पूछे जाने पर, हरि ने उस मुनि से कहा— हे मुनि! आरम्भ से, सविकल्प स्थिति वाले व्यक्तियों का लक्षण मैं कहता हूँ, तुम तत्त्व को सुनो ॥६॥

उपासकानामिति । जिन उपासकों के, एकान्तिक धर्म से भगवान का भजन करने वाले ज्ञानयुक्त मुक्त पुरुषों के, श्रीकृष्ण की मूर्ति में मन की स्थिति होती है, उनके केवल शुभ संकल्प ही होते हैं, अन्य अशुभ संकल्प कभी भी नहीं होते ॥७॥

स्यामेति । वे ऐसे शुभ संकल्प इस प्रकार करते हैं— हम देवर्षि के समान, अथवा ब्रह्मपुत्र सनकादि के समान, अथवा व्यासपुत्र शुक के समान हों; अथवा बदरीवन, जो नरनारायण भगवान का आश्रम है, वहाँ जाकर, वहाँ के मुनियों के साथ, तप करें ॥८॥

गत्वेति । अथवा श्वेत नामक द्वीप में जाकर, वहाँ तप करके, आहार का त्याग करने वाले अर्थात् भगवान के अतिरिक्त अन्य समस्त इन्द्रिय-विषयों के भोगों का त्याग करने वाले होकर, श्वेतमुक्तों के समान बनें; चकार (श्लोक में प्रयुक्त ‘च’ शब्द) से यह अर्थ निकलता है कि (भक्त) अक्षरधाम में जाकर अक्षरमुक्तों के साथ भगवान की सेवा में स्थित हों— ऐसा समझना चाहिए ॥९॥

समाधिभाजामिति । जिन समाधि को प्राप्त, श्रीहरि में मन की निश्चल स्थिति रूप समाधि वाले पुरुषों के ऐसे प्रकार के शुभ संकल्प होते हैं, वे ऐसे संकल्प वाले ही योगशास्त्र में सविकल्प समाधि वाले कहे गए हैं; क्योंकि वाणी आदि इन्द्रियों का व्यापार संकल्पपूर्वक होता है, इसलिए वे अपने आश्रितों के समक्ष इस प्रकार बोलना आदि करते हैं— यही सविकल्प समाधि वालों का लक्षण है ॥१०॥

समाधीति । अब निर्विकल्प समाधि वालों का लक्षण कहा जाता है— जिन समाधि प्राप्त, भगवान की एकान्तिक उपासना से मन की निश्चलता रूप समाधि वाले महान मुक्त पुरुषों के, हृदय में, पूर्व बताए गए शुभ संकल्प का भी उदय नहीं होता, और जो अक्षर के साधर्म्य को, अर्थात् उसके समान धर्म को, प्राप्त होकर, श्रीकृष्ण में मग्न मन वाले, निरंतर अटूट रूप से संलग्न(पूरी तरह से जुड़ा हुआ या लीन) मनवृत्ति वाले होते हैं ॥११॥

कृष्णेति । वे ऐसे प्रकार के ही कृष्ण के भक्त, निर्विकल्प समाधि वाले कहे गए हैं; क्योंकि वाणी आदि इन्द्रियों का व्यापार संकल्पपूर्वक होता है, और संकल्प के निवृत्त हो जाने से वाणी आदि का व्यापार भी निवृत्त हो जाता है, अतः वे अपने आश्रितों के सामने भी भाषण आदि का त्याग करके केवल भगवान के स्वरूप में निमग्न होकर स्थित रहते हैं— यही निर्विकल्प समाधि वालों का लक्षण है। इस प्रकार के हरि के वचन को सुनकर वह मुनि पुनः उस श्रीहरि से बोला ॥१२॥

भक्तिरिति । (मुक्तानंद स्वामी कहते हैं—) ‘हे स्वामिन्! भक्ति और उपासना, ये दो मार्ग आपके (परमात्मा के) प्राप्त करने के लिए शास्त्रों में, जैसे श्रीमद्भागवत आदि सत्-ग्रंथों में, वर्णित हैं। कहीं भक्ति का वर्णन है, तो कहीं उपासना का। उन दोनों—भक्ति और उपासना—का भेद (अंतर) भी इस प्रसंग में आप कहने की कृपा करें। ‘जिन उपासकों का प्रसंग हो’ ऐसा (पूर्व में) सुनकर और ‘वे ही कृष्ण-भक्त कहे गए हैं’ ऐसा सुनकर, शास्त्रों में कृष्ण-प्राप्ति के हेतु के रूप में कहीं उपासना और कहीं भक्ति का वर्णन याद करके, उन दोनों के बीच के भेद को जानने की इच्छा हुई है’॥१३॥ ॥१३॥

तमिति । तब हरि ने उस मुनि से कहा— हे मुनि! मैं तुमसे कहता हूँ, तुम सुनो— कभी भक्ति और उपासना ये दोनों शब्द परस्पर पर्याय होते हैं, भक्ति शब्द का दूसरा पर्याय उपासना है और उपासना का पर्याय भक्ति शब्द है, इस प्रकार इन दोनों का एक ही अर्थ है—ऐसा समझना चाहिए ॥१४॥

क्वचिदिति । कहीं-कहीं (शास्त्रों में) इन दोनों शब्दों (भक्ति और उपासना) के बीच भेद (अंतर) भी है। मैं वह भेद तुमसे कहता हूँ। प्रेम और प्रगाढ़ अनुराग के साथ, नवधा (श्रवण आदि नौ प्रकारों) से श्रीकृष्ण का भजन या सेवा करना ही ‘भक्ति’ कहलाती है ॥१५॥

श्रवणमिति । वे श्रवण आदि नौ प्रकार इस प्रकार हैं— श्रवणम्: भगवान विष्णु (श्रीकृष्ण) की कथाओं को सुनना। कीर्तनम्: उनके गुणों और चरित्रों का गान करना। स्मरणम्: उनके स्वरूप का निरंतर चिंतन और नाम का उच्चारण करना। पादसेवनम्: उनके चरणों की सेवा करना। अर्चनम्: पूजन करना। वन्दनम्: प्रणाम करना। दास्यम्: स्वयं को दास मानकर सेवा करना। सख्यम्: उनके साथ मित्रता का भाव रखना। आत्मनिवेदनम्: पूरी तरह से उनके अधीन हो जाना (स्वयं को समर्पित कर देना) ॥१६॥

उपासनेति । (अब उपासना का अर्थ सुनो—) जो ब्रह्मीभूत है (अर्थात जिसने भगवान की एकान्तिक भक्ति द्वारा ब्रह्म-भाव प्राप्त कर लिया है), उस भक्त के अन्तःकरण में श्रीकृष्ण के प्रति जो अत्यंत दृढ़ और सदा साकार-भावना रहती है, उसे उपासना कहते हैं

वह साकार भावना (संस्कार) क्या है? यह दृढ़ निश्चय कि: ‘श्रीकृष्ण सदा किशोर आयु वाले हैं, पीताम्बर धारी हैं, जिनके कर-कमलों में अधरों पर धरी हुई मुरली सुशोभित है, जिनका प्रत्येक अंग कामदेव को भी मोहित करने वाला (मदन-मोहन) है, और जिनके चरण-कमलों की सेवा अक्षर-भाव को प्राप्त मुक्त आत्माओं के वृन्द (समूह) द्वारा की जा रही है। ऐसी जो अटल धारणा है, वही उपासना है ॥१७॥

श्रुतीति । वह श्रीकृष्ण के प्रति जो सदा साकार-भावना (ईश्वर का दिव्य रूप होने का निश्चय) है, वह निराकारवादियों—अर्थात श्रीकृष्ण को आकृति-रहित बताने वाले शुष्क वेदान्तियों—के द्वारा दिए गए तर्कों से कभी विचलित नहीं होती। वे निराकारवादी भले ही श्रुति और स्मृति के प्रमाण-वाक्यों का कल्पित और विपरीत अर्थ निकालें, फिर भी (भक्त की वह भावना) कहीं भी और कभी भी ह्रास (विनाश) को प्राप्त नहीं होती। इसके विपरीत (प्रत्युत), वह भावना और भी दृढ़ ही होती है। ॥१८॥

साकारेति । इस प्रकार की साकारनिष्ठा के द्वारा, श्रीकृष्ण के समीप, सेवकभाव से युक्त होकर, सदा स्थित रहना, यह बुद्धिमान एकान्तिक उपासकों द्वारा उपासना कहा गया है; क्योंकि समीप स्थित रहना ही उपासना का यथार्थ अर्थ है ॥१९॥

उपासनाया इति । हे सुबुद्धे! इस प्रकार, भक्ति और उपासना का पृथक्-पृथक् भेद मैंने कहा। इस अमृत के समान अपने गुरु श्रीहरि के वचन को सुनकर, मुक्तानन्द मुनि तथा सभा में बैठे अन्य त्यागी और गृहस्थ भक्तजन भी संतुष्ट हुए ॥२०॥


इस प्रकार श्रीमदेकान्तिकधर्म के प्रवर्तक, श्रीहरि के एकान्तिक उपासक, हरिकृष्ण भगवान के पुत्र रघुवीराचार्य द्वारा रचित सेतुमाला नामक श्रीहरिवाक्यसुधासिन्धु की टीका में चालीसवाँ तरंग समाप्त हुआ ॥४०॥

English commentary coming soon...