શ્રીહરિવાક્યસુધાસિંધુ - સદ્ગુરુ શ્રી શતાનંદ સ્વામી દ્વારા રચિત સંસ્કૃત રૂપાંતરણ
तरंग १३२ - पञ्चालखेटे ६#
शकाब्दे विकमार्कस्य नगाश्ववसभूमिते। नवम्यां फाल्गुनस्यान्ते वचोऽमृतमिदं हरेः ॥१॥
पञ्चालखेटके तत्र दुर्गे हेमन्तभूभृतः । वेद्यां न्यषीदत् स शुभे मञ्चके स्वास्तृते प्रभुः ॥२॥
सितधोत्र: सितोष्णीषः सितप्रावरणांशुकः । उष्मकारुणनीशारं दधद्भक्तगणैर्वतः ॥३॥
स्वयमेवाब्रवीत् साधून् प्रसन्नास्यः स सर्ववित्। मया विचार्य बहुधा निश्चितं यद्वदामि तत् ॥४॥
अवतारा भगवतो भवन्त्येव सहस्रशः ।
अन्येषां स्वस्वरूपाणां भावा ये तेऽखिला अपि । अत्र सन्दर्शितास्तेन कृष्णः स्वयमितीर्यते ॥६॥
स्वजन्मकाले मथुरापुर्या लक्ष्मीशतात्मनः । चतुर्भुजेन रूपेण पितृभ्यां तेन दर्शिता ॥७॥
गोकुले च यशोदायै विश्वरूपत्वमात्मनः । प्रदर्शितं चार्जुनाय वैराजत्वं महामृधे ॥८॥
अर्जनायैव दत्तं च भूमरूपस्य दर्शनम् । पुरुषोत्तमता चोक्ता स्वमुखेनैव तं प्रति ॥९॥
यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥१०॥
राधादिसहितत्वेन गोलोकेश्वरता तथा । यमुनां प्रति गोप्युक्त्या दर्शिताद्यर्षितात्मनः ॥११॥
अक्रूराय च कालिन्द्यां दर्शिता शेषशायिता । नैकाण्डदर्शनेनैव ब्रह्मणेऽक्षरता तथा ॥१२॥
एवं स्वस्य स्वरूपाणि भिन्नस्थानगतान्यपि ।तदैश्वर्याणि च स्वस्मिन् शक्तयश्च प्रदर्शिताः ॥१३॥
एवं माहात्म्यविज्ञानपूर्विका ह्यचला मतिः । कृष्णे दृढं भवेद्यस्य स एवोक्तोऽकुतोभयः ॥१५॥
तादृशस्य क्वचित् स्वीयनियमस्य च्युतावपि । सर्वथा कृष्णरक्ष्यत्वादुत्तमेव गतिर्भवेत् ॥१६॥
एवं श्रीहरिणात्मनि प्रकटिता लक्ष्मीधवाद्याकृतीरैश्वर्याणि च तत्स्थितानि हृदये संस्मृत्य चित्रं गताः ।
ज्ञात्वा चाखिलकारणं तमभजंस्ते साधवः सर्वशस्तद्वाक्याम् तपानहृष्टमनसश्चान्ये गृहस्था अपि ।।१७।।
इति श्रीहरिवाक्यसुधासिन्धौ शतानन्दविरचिते शताधिकद्वात्रिंशस्तरङ्गः ॥१३२॥६॥
૧૩૨મો તરંગ - પંચાલા ૬#
વિક્રમ સંવત્
પંચાલ ગામના કિલ્લામાં, હેમંત નામના રાજા (જિણાભાઈ)ના દરબારમાં — પ્રભુ શુભ વેદી પર, પોતાના બિછાવેલા સુંદર મંચ પર વિરાજમાન થયા ॥૨॥
શ્વેત ધોતી, શ્વેત પાઘડી, શ્વેત ઉપરનું વસ્ત્ર ધારણ કરેલું, તથા શીતને દૂર કરવા માટે (ગરમ વસ્ત્ર/આવરણ) ધારણ કરેલું — ભક્તજનોથી ઘેરાયેલા ॥૩॥
તે સર્વજ્ઞ પ્રભુ પ્રસન્નમુખ થઈને સ્વયં જ સાધુઓને બોલ્યા— મેં ભલીભાંતિ અનેક પ્રકારથી વિચાર કરીને જે નિશ્ચય કર્યો છે, તે જ કહું છું ॥૪॥
અન્ય તમામ અવતારોના પોતપોતાના રૂપોના જે સમસ્ત ભાવ છે, તે બધા આમાં (કૃષ્ણમાં) પ્રદર્શિત છે; આ જ કારણે તેમને
પોતાના જન્મના સમયે મથુરા નગરીમાં
ગોકુળમાં યશોદાને પોતાનું વિશ્વરૂપ બતાવ્યું, તથા મહાભારતના યુદ્ધમાં અર્જુનને
અર્જુનને જ વિશેષ રૂપે
કારણ કે હું ક્ષર (નાશવાન)થી પરે છું અને અક્ષરથી પણ શ્રેષ્ઠ છું, તેથી હું લોક અને વેદમાં ‘પુરુષોત્તમ’ નામથી પ્રસિદ્ધ છું. ॥૧૦॥
રાધા આદિ સાથે રહેવાના કારણે
અક્રૂરને કાલિન્દી(યમુના)માં
આ પ્રમાણે પોતાના ભિન્ન-ભિન્ન સ્થાનોમાં સ્થિત અનેક સ્વરૂપો તથા તેમના ઐશ્વર્યો અને શક્તિઓને પણ પોતાનામાં જ પ્રગટ કર્યા ॥૧૩॥
આ પ્રમાણે માહાત્મ્ય-જ્ઞાનપૂર્વક જેની બુદ્ધિ કૃષ્ણમાં દૃઢ અને અચલ થઈ જાય છે, તે જ ‘અકુતોભય’ (નિઃશંક) કહેવાય છે ॥૧૫॥
આવા પુરુષના ક્યારેય પોતાના નિયમમાં ચ્યુત થઈ જવા પર પણ, કૃષ્ણ દ્વારા પૂર્ણતઃ રક્ષિત હોવાથી તેની ગતિ ઉત્તમ જ થાય છે ॥૧૬॥
આ પ્રમાણે
આ પ્રમાણે શ્રીહરિવાક્યસુધાસિંધુમાં શતાનંદ દ્વારા રચિત એક સો બત્રીસમો તરંગ સમાપ્ત થયો ॥૧૩૨॥૬॥
१३२ वाँ तरंग - पञ्चाला ६#
विक्रम संवत्
पञ्चाल गाँव के किले में, हेमन्त नामक राजा (जिणाभाई) के दरबार में — प्रभु शुभ वेदी पर, अपने बिछाए हुए सुन्दर मञ्च पर विराजमान हुए ॥२॥
श्वेत धोती, श्वेत पगड़ी, श्वेत ऊपरका वस्त्र धारण किये हुए, तथा शीत को दूर करने के लिए (गरम वस्त्र/आवरण) धारण किए हुए — भक्तगणों से घिरे हुए ॥३॥
वे सर्वज्ञ प्रभु प्रसन्नमुख होकर स्वयं ही साधुओं से बोले— मैंने भलीभाँति अनेक प्रकार से विचार करके जो निश्चय किया है, वही कहता हूँ ॥४॥
अन्य सभी अवतारों के अपने-अपने रूपों के जो समस्त भाव हैं, वे सब इसमें (कृष्ण में) प्रदर्शित हैं; इसीलिए उन्हें
अपने जन्म के समय मथुरा नगरी में
गोकुल में यशोदा को अपना विश्वरूप दिखाया, तथा महाभारत के युद्ध में अर्जुन को
अर्जुन को ही विशेष रूप से
क्योंकि मैं क्षर (नाशवान) से परे हूँ और अक्षर से भी श्रेष्ठ हूँ, इसलिए मैं लोक और वेद में ‘पुरुषोत्तम’ के नाम से प्रसिद्ध हूँ। ॥१०॥
राधा आदि के साथ रहने के कारण
अक्रूर को कालिन्दी(यमुना) में
इस प्रकार अपने भिन्न-भिन्न स्थानों में स्थित अनेक स्वरूपों तथा उनके ऐश्वर्यों और शक्तियों को भी अपने भीतर ही प्रकट किया ॥१३॥
इस प्रकार माहात्म्य-ज्ञानपूर्वक जिसकी बुद्धि कृष्ण में दृढ़ और अचल हो जाती है, वही ‘अकुतोभय’ (निःशंक) कहा गया है ॥१५॥
ऐसे पुरुष के कभी अपने नियम में च्युत हो जाने पर भी, कृष्ण द्वारा पूर्णतः रक्षित होने से उसकी गति उत्तम ही होती है ॥१६॥
इस प्रकार
इस प्रकार श्रीहरिवाक्यसुधासिन्धु में शतानन्द द्वारा रचित एक सौ बत्तीसवाँ तरंग समाप्त हुआ ॥१३२॥६॥
132th Tarang - Panchala 6#
In Vikram Samvat
In the fort of Panchal village, in the court of King Hemant (Jinabhai) — the Lord was seated on the auspicious platform, upon His beautifully spread couch ॥२॥
Wearing white dhoti, white turban, white upper garment, and clad in warm coverings to dispel the cold — surrounded by devotees ॥३॥
That omniscient Lord, with a cheerful face, Himself addressed the saints—
Having duly considered in various ways, I declare that which I have firmly resolved ॥४॥
All the moods and aspects present in the individual forms of other incarnations are fully manifested here (in Krishna); therefore, He is called
At the time of His birth in Mathura city,
In Gokul, He showed His universal form to Yashoda, and in the great battle of Mahabharata, He granted Arjuna the vision of the
To Arjuna alone was specially granted the vision of the
Since I am beyond the perishable (kshara) and superior even to the imperishable (akshara), therefore I am celebrated in the world and in the Vedas as “Purushottama” ॥१०॥
Because of being accompanied by Radha and others, He also revealed
To Akrura, on the Kalindi (Yamuna), He showed the
In this manner, He manifested within Himself His manifold forms situated in different places, along with their divine opulences and potencies ॥१३॥
In this way, the mind that becomes steady and unwavering in Krishna through prior knowledge of His greatness is called “akutobhaya” (free from all fear) ॥१५॥
Even if such a person should ever falter in his own vows, because he is completely protected by Krishna, his ultimate destination remains supreme ॥१६॥
Thus
Thus concludes the one hundred and thirty-second wave(Tarang) composed by Shatananda in Shri Hari Vakya Sudhasindhu ॥१३२॥६॥
સેતુમાળા ટીકા - પ્રથમ આચાર્ય શ્રી રઘુવીરજી મહારાજ દ્વારા રચિત સંસ્કૃત ટીકા
तरंग १३२ - पञ्चालखेटे ६ की टीका#
शकेति । शकेति पूर्वार्ध व्याख्यातम् । (१८७७) फाल्गुनमासस्य । अन्ते कृष्णपक्षे । नवम्यां तिथौ । इयम् । हरेः । वचोऽमृतम् । अभूत् ॥१॥
पञ्चालेति । तत्र तिथौ । पञ्चालखेटके । हेमन्तभूभृतः । दुर्गे। वेद्यां तद्भवनस्य बाह्यवेदिकायाम् । स्वास्तृते । शुभे शोभमाने । मञ्चके पर्यङ्कासने । प्रभुः। स श्रीहरिः। न्यषीद्त ॥२॥
सितेति । सितधोत्रः परिहितश्वेताधोंऽशुकः । सितोष्णीषः शिरोनिबद्धश्वेतसूक्ष्मघनमृदुवसनः । सितप्रावरणांशुकः प्रावृतश्चेताङ्गवस्त्रः । उष्मकारुणनीशारमुष्मगुणकरक्तवर्णहिमानिलनिवारणम् । दधत् । भक्तगणैनांनादेशागतैस्त्यागि गृहिस्वभक्तवृन्दैः । वृतः सभायां परिवेष्टितः ॥३॥
स्वयमिति । प्रसन्नास्यः । सर्ववित् । स श्रीहरिः। स्वयमेव। साधून् । अब्रवीत्। इति। सार्धश्लोकस्यैकसम्बन्धः । हे साधवः ।। मया। बहुधा । विचार्य। सकलवेदेतिहासपुराणागमसिद्धान्तज्ञानाय तेषु मतिप्रसारपूर्व विचारं कृत्वेत्यर्थः । यत् । निश्चितम् । तत् । वदामि ॥४॥
अवतारा इति । भगवतः श्रीहरेः । अवतारा अवतरणमवतारः सोऽस्त्यस्येत्यवतार इति व्युत्पत्त्या स्वयंतयावतीर्यते गुणैश्वर्यादिना भगवता स्वैकान्तिकमुक्तेष्विति व्युत्पत्त्या स्वकीयमुक्तभक्तद्वारा चेत्येवं द्विविधा अपि प्रादुर्भावाः । सहस्त्रशोऽपरिमिता एव । भवन्ति ।
अत्र हेतुमाह । अन्येषामिति । अन्येषाम्। स्वस्वरूपाणां लक्ष्मीनारायणादीनाम् । ये। भावा ऐश्वर्याणि सन्ति । अखिला अपि। ते भावाः। अत्र कृष्णावतारे। सन्दर्शिताः स्वेन प्रकाशिताः। तेन हेतुना। कृष्णः । स्वयं स्वयमेव । इतीत्थम् । ईर्यत ‘कृष्णस्तु भगवान् स्वयम्’ (भा. १-३-२८) इत्यादि श्रीभागवतवचनेन कथ्यते ॥६॥
श्रीकृष्णेन स्वस्मिन् प्रदर्शितान् भावानाह षड्भिः। स्वेति। मथुरापुर्याम् । स्वजन्मकाले। आत्मनः स्वस्य । लक्ष्मीशता वैकुण्ठलोकवर्ति श्रीलक्ष्मीनारायणस्वरूपभावः । तेन श्रीकृष्णेन । चतुर्भुजेन । रूपेण । पितृभ्यां देवकीवसुदेवाभ्याम् । दर्शिता ॥७॥
गोकुल इति । गोकुले व्रजे च। आत्मनः स्वस्य । विश्वरूपत्वम् । यशोदायै स्वमात्रे । प्रदर्शितम् ।अर्जुनायेति । किञ्च । भूमरूपस्याव्याकृतधामवतिस्वकीयभूमपुरुषस्वरूपस्य । दर्शनं च । अर्जुनाय द्विजपुत्रानयने पुनरपि पार्थायैव । दत्तम् । किञ्छ। तमर्जुनं प्रति । स्वमुखेनैव । पुरुषोत्तमता स्वीयपुरुषोत्तमत्वं च। उक्ता ॥९॥
अर्जुनाय श्रीकृष्णोक्तां स्वपुरुषोत्तमतामाह । यस्मादिति । यस्माद्धेतोः । अहम् । क्षरम् । अतीतः । अक्षरादपि । उत्तमश्चास्मि । अतो हेतोः । लोके । वेदे च । पुरुषोत्तमः । प्रथितः । अस्मि ॥१०॥
राधेति । तथा। राधादिसहितत्वेन राधिकागोपगोप्यादिसहिततया आत्मनः स्वस्य । गोलोकेश्वरता । दर्शिता । रासोत्सवाचरणेनेतिशेषः । यमुनां प्रति । गोप्युक्त्या श्रीकृष्णः सदा ब्रह्मचारी चेन्नो मार्ग देहीति गोपीजनवचनेन । आत्मनः । आद्यर्षिता नरनारायणत्वम् । दर्शिता । तथा च कृष्णतापनीश्रुतिः । ‘कथं यास्यामोऽतीत्त्वं जलं यमुनाया यतः श्रेयो भवति कृष्णोऽतिब्रह्मचारीत्युक्त्वा मार्ग वो दास्यती’ति (कृष्णोत्तरतापनी - १) ॥११॥
अक्रुरायेति । कालिन्द्यां यमुनाजले । अक्रुराय गान्दिनेयाय चापि । शेषशायिता स्वीयशेषशायिस्वरूपत्वम् । दर्शिता । तथा । नैकाण्डदर्शननैकैकस्वसुहृद्धत्सप्रत्येकैकब्रह्माण्डप्रदर्शनेन । ब्रह्मणे विधये । अक्षरता स्वस्याक्षरब्रह्मरूपत्वमेव । दर्शिता । तथाचोक्तं श्रीभागवते । ‘तावन्त्येव जगन्त्यभू’रिति (भा. १०-१४-१८) । ‘क्वाहं तमो मह दह’ मित्यादिना च (भा. १०-१४-२) ॥१२॥
एवमिति । एवममुना प्रकारेण । भित्रभिन्नस्थानगतान्यपि । स्वस्य । स्वरूपाणि । तदैश्वर्याणि च। शक्तयोलक्ष्मीराधिकाद्याश्च । स्वस्मिन् । प्रदर्शिताः ॥१३॥
अत इति । अतो हेतोः ।
एवमिति । एवममुना प्रकारेण । कृष्णे श्रीहरौ । माहात्म्यविज्ञानपूर्विका । अचला मतिः । यस्य भक्तस्य । दृढं यथा तथा । अव्यभिचारिणीत्यर्थः । भवेत् । स भक्त एव । अकुतोभयः कालमायायमादिभयवर्जितः । उक्तः । हि ॥१५॥
तादृशस्येति । तादृशस्य तथाविधभक्तस्य । क्वचिद्देशकालादिविषमत्वे सतीत्यर्थः । स्वीयनियमच्युतावहिंसादिनियमभङ्गे जाते सत्यपीत्यर्थः । सर्वथा । कृष्णरक्ष्यत्वाच्रछीहरिकृततद्रक्षणसत्त्वाद्धेतोः । उत्तमा श्रेष्ठैव गतिः । भवेत् । अन्ते भगवद्धामप्राप्तिरेव स्यादित्यर्थः ॥१६॥
एवमिति । एवममुना प्रकारेण । श्रीहरिणा । आत्मनि सर्वकारणे स्वस्मिन् । प्रकटिताः उक्तप्रकारेण प्रदर्शिताः । लक्ष्मीधवाद्याकृतीर्लक्ष्मीनारायणादिस्वरूपाणि । तत्स्थिानि । ऐश्वर्याणि च । हृदये स्वस्वमानसे । संस्मृत्य चित्रमाश्चर्यम् । गताः प्राप्ताः । तद्वाक्यामृतपानहृष्टमनसः श्रीहरेस्तथाविधवचनामृतपीत्यतिमुदितमानसाः । सर्वशः । ते साधवः । अन्ये गृहस्थाचापि । तं श्रीहरिम् । अखिलकारणमक्षरधामाधिपतिं श्रीपुरुषोत्तमम् । ज्ञात्वा विशेषतो बुध्वा । अभजत्रेकान्तिकभावेन भेजिरे ॥१७॥
परोक्षप्रियतारूपं स्वस्वभावं प्रदर्शयन् । स्वभक्तान् स्वस्वरूपाणामैश्वर्याणां च सर्वशः ॥१॥
स्वस्यैव यः कारणत्वं पारोक्ष्येणाह तत्त्वतः । श्रीहरिः स प्रियो मेऽस्तु भक्तिधर्मसुतः प्रभुः ॥२॥
इति श्रीमदेकान्तिधर्मप्रवर्तक श्रीहर्येकान्तिकोपासक श्रीहरिकृष्ण भगवत्सूनुरघुवीराचार्यविरचितायां सेतुमालाख्यायां श्रीहरिवाक्यसुधासिन्धुटीकायां शताधिकद्वात्रिंशस्तरङ्गः ॥१३२॥६॥
તરંગ ૧૩૨ - પંચાલા ૬ ની ટીકા#
शकेति । “शकाब्दे” — આ શબ્દનો પૂર્વાર્ધ પહેલેથી જ વ્યાખ્યાયિત કરવામાં આવ્યો છે. (અહીં ભૂતસંખ્યા દ્વારા ૧૮૭૭ અભિપ્રેત છે). ફાલ્ગુન માસના અંતમાં, એટલે કે કૃષ્ણ પક્ષની નવમી તિથિને — આ ભગવાનનું અમૃતમય વચન પ્રગટ થયું. ॥૧॥
पञ्चालेति । તે તિથિમાં પંચાલખેટક નામના સ્થળ પર, હેમંત (જિણાભાઈ) નામના ભૂમિપાળ (રાજા)ના દુર્ગમાં, તે ભવનની બાહ્ય વેદિકા પર, પોતાના દ્વારા બિછાવેલા, શોભાયુક્ત સુંદર મંચ (આસન) પર પ્રભુ શ્રીહરિ વિરાજમાન થયા. ॥૨॥
सितेति । તેમણે શ્વેત ધોતી (નીચેનું વસ્ત્ર) ધારણ કરી હતી, શ્વેત ઉષ્ણીષ (માથા પર બંધાયેલું કોમળ અને ઘન શ્વેત વસ્ત્ર) પહેર્યું હતું, તથા શ્વેત પ્રાવરણ (ઉપરનું ઓઢવાનું વસ્ત્ર)થી આચ્છાદિત હતા. સાથે જ શીતને દૂર કરનાર (ઉષ્ણ ગુણયુક્ત, રક્તવર્ણ) વસ્ત્ર પણ ધારણ કરેલા હતા. તેઓ અનેક દેશોમાંથી આવેલા ત્યાગી અને ગૃહસ્થ ભક્તોના સમૂહથી ઘેરાયેલા સભામાં વિરાજમાન હતા. ॥૩॥
स्वयमिति । તે શ્રીહરિ, પ્રસન્ન મુખવાળા અને સર્વજ્ઞ, સ્વયં જ સાધુઓને બોલ્યા. “મેં અનેક પ્રકારથી વિચાર કરીને, સમસ્ત વેદ, ઇતિહાસ, પુરાણ અને આગમના સિદ્ધાંતોનું જ્ઞાન પ્રાપ્ત કરવા હેતુ તે શાસ્ત્રોમાં પોતાની બુદ્ધિને વિસ્તાર પૂર્વક ફેલાવી વિચાર કર્યો છે — જે નિષ્કર્ષ (નિશ્ચિત તત્ત્વ) પ્રાપ્ત થયો છે, તે જ હું કહું છું.” ॥૪॥
अवतारा इति । ભગવાન શ્રીહરિના અવતાર થાય છે. “અવતાર” શબ્દની વ્યુત્પત્તિ અનુસાર — ભગવાન સ્વયં પોતાના ગુણ, ઐશ્વર્ય આદિ સહિત અવતર્ણ થાય છે, અથવા પોતાના એકાન્તિક મુક્ત ભક્તો દ્વારા પ્રકટ થાય છે —
अन्येषामिति । અહીં (પૂર્વ કથનનું) કારણ કહેવામાં આવે છે. અન્ય અવતારોના પોતપોતાના સ્વરૂપો (જેમ કે લક્ષ્મી-નારાયણ આદિ)માં જે-જે ભાવ અને ઐશ્વર્ય છે, તે સર્વ આ કૃષ્ણાવતારમાં પ્રકટ કરવામાં આવ્યા છે અને સ્વયં ભગવાન દ્વારા પ્રકાશિત કરવામાં આવ્યા છે. આ જ કારણે કૃષ્ણને જ “સ્વયં ભગવાન” કહેવાય છે. આ પ્રકારનો સિદ્ધાંત “कृष्णस्तु भगवान् स्वयम्” (भागवत १-३-२८) આદિ વચનો દ્વારા પ્રતિપાદિત કરવામાં આવ્યો છે. ॥૬॥
स्वेति । અહીં (શ્રીકૃષ્ણે) પોતાનામાં પ્રકટ કરેલા ભાવોને (છ પ્રકારથી) કહે છે. મથુરા નગરીમાં, પોતાના જન્મના સમયે, પોતાના જ (સ્વરૂપમાં સ્થિત) વૈકુંઠલોકમાં વિરાજમાન લક્ષ્મી-નારાયણ સ્વરૂપનો ભાવ ધારણ કરીને, તે શ્રીકૃષ્ણે ચતુર્ભુજ રૂપથી પોતાના માતા-પિતા (દેવકી અને વસુદેવ)ને દર્શન કરાવ્યું. ॥૭॥
गोकुल इति । ગોકુળ (વ્રજ)માં તેમણે પોતાની માતા યશોદાને પોતાનું વિશ્વરૂપ (સંપૂર્ણ બ્રહ્માંડમય સ્વરૂપ) બતાવ્યું. અને અર્જુનને — (વિશેષ રૂપે) પોતાના ભૂમા-સ્વરૂપ (અવ્યાકૃત ધામમાં સ્થિત પોતાના અનંત, પરમ સ્વરૂપ)નું દર્શન કરાવ્યું; તથા દ્વિજપુત્રોને લાવવાના પ્રસંગમાં પુનઃ તે જ અર્જુનને જ તે દર્શન આપ્યું. અને તે જ અર્જુનના પ્રતિ પોતાના મુખથી પોતાની પુરુષોત્તમતા (સર્વોચ્ચત્વ) પણ કહી. ॥૯॥
यस्मादिति . અર્જુનના પ્રતિ શ્રીકૃષ્ણ દ્વારા કહેલી પોતાની પુરુષોત્તમતાનું કથન કરે છે — “જે કારણે હું ક્ષર (નાશવાન)થી પરે છું અને અક્ષરથી પણ શ્રેષ્ઠ છું, આ કારણે હું લોકમાં અને વેદોમાં ‘પુરુષોત્તમ’ નામથી પ્રસિદ્ધ છું.” ॥૧૦॥
राधेति . આ જ પ્રમાણે રાધા આદિ (ગોપ-ગોપીઓ)ના સહિત હોવાથી, પોતાના જ સ્વરૂપની ગોલોકના ઈશ્વર તરીકેની સ્થિતિ (ગોલોકેશ્વરતા)ને પણ પ્રકટ કરી (આ રાસોત્સવના આચરણથી સમજવું જોઈએ). અને યમુનાના પ્રસંગમાં, ગોપીઓના વચન — “જો શ્રીકૃષ્ણ સદા બ્રહ્મચારી છે તો અમને માર્ગ આપો” — આ પ્રકારના કથન દ્વારા, પોતાના જ આદિ-ઋષિ (નર-નારાયણ) સ્વરૂપને પણ પ્રકટ કર્યું. તથા આ વિષયમાં કૃષ્ણતાપની શ્રુતિમાં પણ કહેવામાં આવ્યું છે — “हम यमुना के जल को कैसे पार करें? जिससे हमारा कल्याण हो, वह उपाय यह है कि ‘कृष्ण अति ब्रह्मचारी हैं’ ऐसा कहो, तब वह तुम्हें मार्ग देगी.” (कृष्णोत्तरतापनी - १) ॥૧૧॥
अक्रुरायेति . કાલિન્દી (યમુના)ના જળમાં, અક્રૂર (ગાંદિનેય)ને પણ પોતાના શેષશાયી સ્વરૂપનું દર્શન કરાવ્યું. તથા અનેક-અનેક બ્રહ્માંડોના દર્શન (પ્રત્યેક-પ્રત્યેક બ્રહ્માંડને પોતાના જ સ્વરૂપમાં બતાવીને) બ્રહ્મા (વિધિ)ને પોતાના અક્ષરબ્રહ્મ સ્વરૂપનો પણ બોધ કરાવ્યો. અને આવું જ શ્રીભાગવતમાં પણ કહેવામાં આવ્યું છે — “तावन्त्येव जगन्त्यभूस्तदनु तावत्येव ते रूपिणः…” (भा. १०-१४-१८) તથા “क्वाहं तमो महदह…” (भा. १०-१४-२) આદિ. ॥૧૨॥
तावन्त्येव जगन्त्यभूस्तदनु तावत्येव ते रूपिणः । तावन्त्येव च भूतसर्गनिवहास्तत्रैव ते भूरिशः ।
दृष्ट्वैतत् त्वदनन्तवीर्यमभितो ब्रह्मा विस्मितोऽभूत् पुनः । किं मे शक्तिरिति स्वकर्मणि पुनः स्तोतुं प्रवृत्तोऽभवत् ॥ (भा. १०-१४-१८)
ભાવાર્થ:
જેટલા-જેટલા બ્રહ્માંડ પ્રકટ થયા, એટલા-એટલા જ તમારા રૂપ પણ પ્રકટ થયા, અને એટલા જ જીવોના સમૂહ પણ પ્રકટ થયા. આ પ્રમાણે તમારા અનંત ઐશ્વર્યને જોઈને બ્રહ્મા અત્યંત વિસ્મિત થયા અને પોતાની અલ્પ શક્તિને સમજીને પુનઃ તમારી સ્તુતિ કરવા લાગ્યા.
क्वाहं तमो-महदहं किमिहास्मि किं वा किं स्वप्न इदृगनुभवोऽयमिहास्ति किं वा ।
इत्थं विचिन्त्य मनसा भगवाननन्तो मायां व्युदस्य परमां परमार्थमीयात् ॥ (भा. १०-१४-२)
ભાવાર્થ:
(બ્રહ્મા વિચારે છે) હું કોણ છું? આ મહાન અજ્ઞાન શું છે? હું અહીં શું કરી રહ્યો છું? આ અનુભવ સ્વપ્ન છે કે વાસ્તવિક? આ પ્રમાણે મનમાં વિચાર કરીને, ભગવાન અનંતની માયાને સમજીને (તેનાથી પરે થઈને) પરમ સત્ય તરફ પ્રવૃત્ત થાય છે.
एवमिति । આ પ્રમાણે પોતાના ભિન્ન-ભિન્ન સ્થાનોમાં સ્થિત વિવિધ સ્વરૂપોને, તથા તેમના ઐશ્વર્યો અને શક્તિઓ (જેમ કે લક્ષ્મી, રાધા આદિ)ને પણ પોતાના જ અંદર પ્રકટ કર્યા. ॥૧૩॥
अत इति । આ કારણે,
આ કથનનો ગૂઢ ભાવ આ છે કે પોતાના મુખથી પોતાની જ મહિમાનું કથન કરવું યોગ્ય નથી (આત્મ-સ્તુતિનો દોષ હોવાથી) અને ભગવાનનો સ્વભાવ પણ પરોક્ષપ્રિય છે; આથી તેઓ પોતાના (સ્વયંના) અવતાર શ્રીકૃષ્ણને જ લક્ષ્મી-નારાયણ આદિ સમસ્ત સ્વરૂપો અને તેમના ઐશ્વર્યોના પ્રદર્શનનું હેતુ માનીને, તેને સર્વશ્રેષ્ઠ રૂપમાં કહ્યું.
અર્થાત્
આ પ્રમાણે તેમણે પોતાના જ ભક્તોને પોતાની ભક્તિનો ઉપદેશ આપ્યો. ॥૧૪॥
एवमिति । આ પ્રમાણે, ઉપર કહેલા પ્રકારથી,
तादृशस्येति । આવા ભક્તના, ક્યારેય દેશ-કાળ આદિની વિષમતાના કારણે પોતાના નિયમોમાં ચ્યુત થઈ જવા પર પણ (જેમ કે અહિંસા આદિ નિયમોનો ભંગ થઈ જાય તો પણ), તે સર્વથા શ્રીકૃષ્ણ દ્વારા રક્ષિત હોવાના કારણે અંતે ઉત્તમ ગતિ (ભગવદ્ધામની પ્રાપ્તિ) જ પ્રાપ્ત કરે છે. ॥૧૬॥
एवमिति । આ પ્રમાણે શ્રીહરિએ પોતાનામાં પ્રકટ કરેલા લક્ષ્મી-નારાયણ આદિ સ્વરૂપો અને તેમાં સ્થિત ઐશ્વર્યોને (શ્રોતાઓએ) પોતાના હૃદયમાં સ્મરણ કરીને આશ્ચર્યનો અનુભવ કર્યો. અને તે વચનામૃતનું પાન કરીને (સાંભળીને) અત્યંત હર્ષિત મનવાળા તે સાધુજન તથા અન્ય ગૃહસ્થ પણ — તેમને સમસ્ત કારણોનું કારણ (અક્ષરધામના અધિપતિ, પુરુષોત્તમ) જાણીને, એકાન્તિક ભાવથી તેમની ભક્તિ કરવા લાગ્યા. ॥૧૭॥
આ પ્રમાણે શ્રીમદ્ એકાન્તિધર્મના પ્રવર્તક, શ્રીહરિના એકાન્તિક ઉપાસક, શ્રીહરિકૃષ્ણ ભગવાનના પુત્ર રઘુવીરાચાર્ય દ્વારા રચિત સેતુ માળા નામના ગ્રંથમાં, શ્રીહરિવાક્યસુધાસિંધુની ટીકામાં, એક સો બત્રીસમો તરંગ સમાપ્ત થયો ॥૧૩૨॥૬॥
तरंग १३२ - पञ्चाला ६ की टीका#
शकेति । “शकाब्दे” — इस शब्द का पूर्वार्ध पहले ही व्याख्यात किया गया है। (यहाँ भूतसंख्या के द्वारा १८७७ अभिप्रेत है)। फाल्गुन मास के अन्त में, अर्थात् कृष्ण पक्ष की नवमी तिथि को — यह भगवान के अमृतमय वचन प्रकट हुए। ॥१॥
पञ्चालेति । उस तिथि में पंचालखेटक नामक स्थान पर, हेमन्त(जिणाभाई) नामक भूमिपाल(राजा) के दुर्ग में, उस भवन की बाह्य वेदिका पर, अपने द्वारा बिछाए हुए, शोभायुक्त सुंदर मंच (आसन) पर प्रभु श्रीहरि विराजमान हुए। ॥२॥
सितेति । उन्होंने श्वेत धोती (नीचे का वस्त्र) धारण की थी, श्वेत उष्णीष (सिर पर बँधा हुआ कोमल और घना श्वेत वस्त्र) पहना था, तथा श्वेत प्रावरण (ऊपर का ओढ़ने वाला वस्त्र) से आच्छादित थे। साथ ही शीत को दूर करने वाले (उष्ण गुणयुक्त, रक्तवर्ण) वस्त्र भी धारण किए हुए थे। वे अनेक देशों से आए हुए त्यागी और गृहस्थ भक्तों के समूह से घिरे हुए सभा में विराजमान थे। ॥३॥
स्वयमिति । वे श्रीहरि, प्रसन्न मुख वाले और सर्वज्ञ, स्वयं ही साधुओं से बोले। “मैंने अनेक प्रकार से विचार करके, समस्त वेद, इतिहास, पुराण और आगम के सिद्धान्तों का ज्ञान प्राप्त करने हेतु उन शास्त्रों में अपनी बुद्धि को विस्तार पूर्वक फैलाकर विचार किया है — जो निष्कर्ष (निश्चित तत्त्व) प्राप्त हुआ है, वही मैं कहता हूँ।” ॥४॥
अवतारा इति । भगवान श्रीहरि के अवतार होते हैं। “अवतार” शब्द की व्युत्पत्ति के अनुसार — भगवान स्वयं अपने गुण, ऐश्वर्य आदि सहित अवतीर्ण होते हैं, अथवा अपने एकान्तिक मुक्त भक्तों के द्वारा प्रकट होते हैं —
अन्येषामिति । यहाँ (पूर्व कथन का) कारण बताया जाता है। अन्य अवतारों के अपने-अपने स्वरूपों (जैसे लक्ष्मी-नारायण आदि) में जो-जो भाव और ऐश्वर्य हैं, वे सभी इस कृष्णावतार में प्रकट किए गए हैं और स्वयं भगवान द्वारा प्रकाशित किए गए हैं। इसी कारण कृष्ण को ही “स्वयं भगवान” कहा जाता है। इस प्रकार का सिद्धान्त “कृष्णस्तु भगवान् स्वयम्” (भागवत १-३-२८) आदि वचनों द्वारा प्रतिपादित किया गया है। ॥६॥
स्वेति । यहाँ (श्रीकृष्ण ने) अपने में प्रकट किए हुए भावों को (छः प्रकार से) बतलाते हैं। मथुरा नगरी में, अपने जन्म के समय, अपने ही (स्वरूप में स्थित) वैकुण्ठलोक में विराजमान लक्ष्मी-नारायण स्वरूप का भाव धारण करके, उस श्रीकृष्ण ने चतुर्भुज रूप से अपने माता-पिता (देवकी और वसुदेव) को दर्शन कराया।॥७॥
गोकुल इति । गोकुल (व्रज) में उन्होंने अपनी माता यशोदा को अपना विश्वरूप (सम्पूर्ण ब्रह्माण्डमय स्वरूप) दिखाया। और अर्जुन को — (विशेष रूप से) अपने भूमा-स्वरूप (अव्याकृत धाम में स्थित अपने अनन्त, परम स्वरूप) का दर्शन कराया; तथा द्विजपुत्रों को लाने के प्रसंग में पुनः उसी अर्जुन को ही वह दर्शन दिया। और उसी अर्जुन के प्रति अपने मुख से अपनी पुरुषोत्तमता (सर्वोच्चत्व) भी कही। ॥९॥
यस्मादिति । अर्जुन के प्रति श्रीकृष्ण द्वारा कही गई अपनी पुरुषोत्तमता का कथन करते हैं — “जिस कारण मैं क्षर (नाशवान) से परे हूँ और अक्षर से भी श्रेष्ठ हूँ, इस कारण मैं लोक में और वेदों में ‘पुरुषोत्तम’ के नाम से प्रसिद्ध हूँ।” ॥१०॥
राधेति । इसी प्रकार राधा आदि (गोप-गोपियों) के सहित होने से, अपने ही स्वरूप की गोलोक के ईश्वर के रूप में स्थिति (गोलोकेश्वरता) को भी प्रकट किया (यह रासोत्सव के आचरण से समझना चाहिए)। और यमुना के प्रसंग में, गोपियों के वचन — “यदि श्रीकृष्ण सदा ब्रह्मचारी हैं तो हमें मार्ग दें” — इस प्रकार के कथन द्वारा, अपने ही आदि-ऋषि (नर-नारायण) स्वरूप को भी प्रकट किया। तथा इस विषय में कृष्णतापनी श्रुति में भी कहा गया है — “हम यमुना के जल को कैसे पार करें? जिससे हमारा कल्याण हो, वह उपाय यह है कि ‘कृष्ण अति ब्रह्मचारी हैं’ ऐसा कहो, तब वह तुम्हें मार्ग देगी।” (कृष्णोत्तरतापनी - १) ॥११॥
अक्रुरायेति । कालिन्दी (यमुना) के जल में, अक्रूर (गान्दिनेय) को भी अपने शेषशायी स्वरूप का दर्शन कराया। तथा अनेक-अनेक ब्रह्माण्डों के दर्शन (प्रत्येक-प्रत्येक ब्रह्माण्ड को अपने ही स्वरूप में दिखाकर) ब्रह्मा (विधि) को अपने अक्षरब्रह्म स्वरूप का भी बोध कराया। और ऐसा ही श्रीभागवत में भी कहा गया है — “तावन्त्येव जगन्त्यभूः” (भा. १०-१४-१८) तथा “क्वाहं तमो महदह…” (भा. १०-१४-२) आदि । ॥१२॥
तावन्त्येव जगन्त्यभूस्तदनु तावत्येव ते रूपिणः । तावन्त्येव च भूतसर्गनिवहास्तत्रैव ते भूरिशः ।
दृष्ट्वैतत् त्वदनन्तवीर्यमभितो ब्रह्मा विस्मितोऽभूत् पुनः । किं मे शक्तिरिति स्वकर्मणि पुनः स्तोतुं प्रवृत्तोऽभवत् ॥ (भा. १०-१४-१८)
भावार्थ:
जितने-जितने ब्रह्माण्ड प्रकट हुए, उतने-उतने ही आपके रूप भी प्रकट हुए, और उतने ही जीवों के समूह भी प्रकट हुए। इस प्रकार आपके अनन्त ऐश्वर्य को देखकर ब्रह्मा अत्यन्त विस्मित हो गए और अपनी अल्प शक्ति को समझकर पुनः आपकी स्तुति करने लगे।
क्वाहं तमो-महदहं किमिहास्मि किं वा किं स्वप्न इदृगनुभवोऽयमिहास्ति किं वा ।
इत्थं विचिन्त्य मनसा भगवाननन्तो मायां व्युदस्य परमां परमार्थमीयात् ॥ (भा. १०-१४-२)
भावार्थ:
(ब्रह्मा सोचते हैं) मैं कौन हूँ? यह महान अज्ञान क्या है? मैं यहाँ क्या कर रहा हूँ? यह अनुभव स्वप्न है या वास्तविक? इस प्रकार मन में विचार करते हुए, भगवान अनन्त की माया को समझकर (उससे परे होकर) परम सत्य की ओर प्रवृत्त होते हैं।
एवमिति । इस प्रकार अपने भिन्न-भिन्न स्थानों में स्थित विभिन्न स्वरूपों को, तथा उनके ऐश्वर्यों और शक्तियों (जैसे लक्ष्मी, राधा आदि) को भी अपने ही भीतर प्रकट किया। ॥१३॥
अत इति । इस कारण से,
इस कथन का गूढ़ भाव यह है कि अपने मुख से अपने ही महिमा का कथन करना उचित नहीं होता (आत्म-स्तुति का दोष होने के कारण) और भगवान का स्वभाव भी परोक्षप्रिय है; इसलिए वे अपने(स्वयं के) अवतार श्रीकृष्ण को ही लक्ष्मी-नारायण आदि समस्त स्वरूपों और उनके ऐश्वर्यों के प्रदर्शन का हेतु मानकर, उसे सर्वश्रेष्ठ रूप में कहा।
अर्थात्
इस प्रकार उन्होंने अपने ही भक्तों को अपनी भक्ति का उपदेश दिया। ॥१४॥
एवमिति । इस प्रकार, ऊपर बताए गए प्रकार से,
तादृशस्येति । ऐसे भक्त के, कभी देश-काल आदि की विषमता के कारण अपने नियमों में च्युत हो जाने पर भी (जैसे अहिंसा आदि नियमों का भंग हो जाए तो भी), वह सर्वथा श्रीकृष्ण द्वारा रक्षित होने के कारण अन्त में उत्तम गति (भगवद्धाम की प्राप्ति) ही प्राप्त करता है। ॥१६॥
एवमिति । इस प्रकार श्रीहरि ने अपने में प्रकट किए हुए लक्ष्मी-नारायण आदि स्वरूपों और उनमें स्थित ऐश्वर्यों को (श्रोताओं ने) अपने हृदय में स्मरण करके आश्चर्य का अनुभव किया। और उन वचनामृत का पान करके (सुनकर) अत्यन्त हर्षित मन वाले वे साधुजन तथा अन्य गृहस्थ भी — उन्हें समस्त कारणों का कारण (अक्षरधाम के अधिपति, पुरुषोत्तम) जानकर, एकान्तिक भाव से उनकी भक्ति करने लगे। ॥१७॥
इस प्रकार श्रीमद् एकान्तिधर्म के प्रवर्तक, श्रीहरि के एकान्तिक उपासक, श्रीहरिकृष्ण भगवान् के पुत्र रघुवीराचार्य द्वारा रचित सेतु माला नामक ग्रन्थ में, श्रीहरिवाक्यसुधासिन्धु की टीका में, एक सौ बत्तीसवाँ तरंग समाप्त हुआ ॥१३२॥६॥
Commentary on 132th Tarang - Panchala 6#
शकेति । “शकाब्दे” — The first part of this word has already been explained earlier. (Here, 1877 is implied through the past enumeration). At the end of the Falgun month, that is, on the ninth tithi of the Krishna Paksha — this ambrosial speech of the Lord was revealed. ॥1॥
पञ्चालेति । On that tithi, at the place called Panchalakhetaka, in the fort of Hemant (Jinabhai), the land-protector (king), on the outer platform of that building, upon the beautifully arranged and auspicious couch (seat) spread by Himself, Lord Shri Hari was seated. ॥2॥
सितेति । He was wearing a white dhoti (lower garment), a white ushnisha (soft and thick white cloth tied on the head), and was covered with a white upper garment (shawl). Along with that, He was also clad in warm garments (possessing heating quality, reddish in color) to dispel the cold. He was surrounded in the assembly by groups of renunciates and household devotee-devotees who had come from various countries. ॥3॥
स्वयमिति । That Shri Hari, cheerful-faced and omniscient, Himself addressed the saints: “Having considered in many ways, for the sake of attaining knowledge of the principles of all Vedas, histories, Puranas, and Agamas, I have expanded my intellect in those scriptures and contemplated deeply — whatever conclusion (firmly ascertained truth) has been obtained, that alone I declare.” ॥4॥
अवतारा इति । Incarnations of Lord Shri Hari occur. According to the etymology of the word “avatara” — the Lord Himself descends along with His qualities, opulences, etc., or manifests through His exclusive liberated devotees —
अन्येषामिति । Here the reason (for the previous statement) is given. Whatever moods and opulences exist in the individual forms of other incarnations (such as Lakshmi-Narayana etc.), all of them have been manifested in this Krishna incarnation and illuminated by the Lord Himself. For this reason alone, Krishna is called “the Lord Himself”. This principle is established by statements such as “कृष्णस्तु भगवान् स्वयम्” (Bhagavata 1-3-28) etc. ॥6॥
स्वेति । Here (Shri Krishna) describes the moods manifested in Himself (in six ways). In Mathura city, at the time of His own birth, assuming the mood of the Lakshmi-Narayana form situated in Vaikuntha-loka in His own self, that Shri Krishna revealed Himself in four-armed form to His parents (Devaki and Vasudeva). ॥7॥
गोकुल इति । In Gokula (Vraja), He showed His universal form (the form encompassing the entire universe) to His mother Yashoda. And to Arjuna — (specially) He granted the vision of His Bhuma form (His infinite, supreme form situated in the unmanifest realm); and in the context of bringing back the Brahmin’s sons, He again gave that same vision to Arjuna alone. And to that very Arjuna, from His own mouth, He also declared His supremacy as Purushottama (the Supreme Person). ॥9॥
यस्मादिति . Describing the statement of His own Purushottama nature made by Shri Krishna to Arjuna — “Because I am beyond the perishable (kshara) and superior even to the imperishable (akshara), for this reason I am renowned in the world and in the Vedas as ‘Purushottama’.” ॥10॥
राधेति . In the same way, because of being accompanied by Radha etc. (the gopas and gopis), He also manifested the state of being the Lord of Goloka in His own form (Golokeshwarata) (this should be understood from the performance of the Rasa festival). And in the context of the Yamuna, through the words of the gopis — “If Shri Krishna is always a brahmachari, then give us the path” — by such statements, He also revealed His own adi-rishi (Nara-Narayana) form. And in this regard, it is also stated in the Krishna Tapani Shruti — “How shall we cross the waters of the Yamuna? The means by which our welfare comes is to say ‘Krishna is extremely brahmachari’, then she will give you the path.” (Krishnottara Tapani - 1) ॥11॥
अक्रुरायेति . In the waters of Kalindi (Yamuna), He also showed Akrura (Gandineya) His form reclining on Shesha. And by showing many universes (revealing each individual universe within His own form), He imparted to Brahma (Vidhi) the knowledge of His own imperishable Brahman form as well. And the same is stated in Shri Bhagavata — “तावन्त्येव जगन्त्यभूस्तदनु तावत्येव ते रूपिणः…” (Bhā. 10-14-18) and “क्वाहं तमो महदह…” (Bhā. 10-14-2) etc. ॥12॥
तावन्त्येव जगन्त्यभूस्तदनु तावत्येव ते रूपिणः । तावन्त्येव च भूतसर्गनिवहास्तत्रैव ते भूरिशः ।
दृष्ट्वैतत् त्वदनन्तवीर्यमभितो ब्रह्मा विस्मितोऽभूत् पुनः । किं मे शक्तिरिति स्वकर्मणि पुनः स्तोतुं प्रवृत्तोऽभवत् ॥ (भा. १०-१४-१८)
Meaning:
As many universes manifested, so many of Your forms also manifested, and so many hosts of living beings also appeared. Seeing Your infinite power in this way, Brahma became extremely astonished and, realizing his own limited power, again engaged in praising You.
क्वाहं तमो-महदहं किमिहास्मि किं वा किं स्वप्न इदृगनुभवोऽयमिहास्ति किं वा ।
इत्थं विचिन्त्य मनसा भगवाननन्तो मायां व्युदस्य परमां परमार्थमीयात् ॥ (भा. १०-१४-२)
Meaning:
(Brahma thinks) Who am I? What is this great ignorance? What am I doing here? Is this experience a dream or real? Thus contemplating in his mind, the infinite Lord sets aside illusion and proceeds toward the supreme reality.
एवमिति । In this way, He manifested within Himself the various forms situated in different places, as well as their opulences and powers (such as Lakshmi, Radha, etc.). ॥13॥
अत इति । For this reason,
The profound meaning of this statement is that it is not proper to proclaim one’s own glory from one’s own mouth (due to the fault of self-praise), and the Lord’s nature is also to be dear in an indirect way; therefore, considering His own incarnation Shri Krishna as the cause of displaying all forms such as Lakshmi-Narayana and their opulences, He declared Him as the supreme.
That is,
In this manner, He instructed His own devotees in devotion to Himself. ॥14॥
एवमिति । In this way, as described above,
तादृशस्येति । Even if such a devotee should ever falter in his vows due to adverse circumstances of place, time, etc. (for example, if rules like non-violence are broken), still, because he is completely protected by Shri Krishna, in the end he attains only the supreme destination (reaching the Lord’s abode). ॥16॥
एवमिति । In this way, Shri Hari manifested the forms such as Lakshmi-Narayana and the opulences situated therein within Himself; the listeners, remembering them in their hearts, experienced wonder. And having drunk the nectar of those words (by hearing them), those saints and other householders with greatly delighted minds — recognizing Him as the cause of all causes (the Lord of Aksharadham, Purushottama) — began to worship Him with exclusive devotion. ॥17॥
Thus concludes the one hundred and thirty-second wave in the commentary on Shri Hari Vakya Sudhasindhu, composed by Raghuvira Acharya, son of Lord Shri Harikrishna, the exclusive devotee and promoter of ekantidharma, in the work known as Setumala. ॥132॥6॥