શ્રીહરિવાક્યસુધાસિંધુ - સદ્ગુરુ શ્રી શતાનંદ સ્વામી દ્વારા રચિત સંસ્કૃત રૂપાંતરણ
श्रीस्वामिनारायणाय नमो नमः ।#
महर्षि श्रीशदतानन्दमुनिविरचितम् ।#
श्रीहरिवाक्यसुधासिन्धावुपोद्घातप्रकरणम् ।#
श्रीहरिर्जयति धर्मनन्दनः सर्वजीवहितमानुषाकृतिः । भक्तिपोषक उदारविक्रमो ब्रह्मधामपतिः पुरुषोत्तमः ॥१॥
गोलोकब्रह्मधाम्नो निरतिशयदयापूर्णमानन्दमूर्तिं पातुं सद्धर्मवर्त्मासुरगुरुविहितं भूतले कोसलेषु ॥ भक्तौ धर्मान्नृमूत्र्त्या समुदितमखिलप्राणिसंसारहारं कृष्णं ध्यायामि चित्ते कलिमलहरणं स्वामिनारायणाख्यम् ॥२॥
स जयति सहजानन्दस्वामी सत्यो जगद्गुरुः श्रीमान् । यत्पादाश्रयमात्रात् त्रुट्यति संसारबन्धनं सद्य: ॥३॥
निजाश्रितानां कृपया स पुंसामुन्मूलन् यसंशयजालमीशः । जगाद भूयांस्यनुभूतियूञ्जि साङ्गस्वभक्त्याढ्यवचोऽमृतानि ॥४॥
शतद्वयं सर्वहिताय वर्णैः स्पष्टैस्तु तेषामधिकं द्विषष्ट्या । यथाश्रुतं सद्भिरलेखि मुक्तानन्दादिभिः साधु यथामनीषम् ॥५॥
तावन्त्यहं वागमृतानि तस्य प्रभोर्निदेशेन तदीयतुष्ट्यै । सुसौष्ठवौदार्यमयैः सुपद्यैः स्फुटं शतानन्दमुनिर्दृभामि ॥६॥
જય થાઓ શ્રીહરિ ! ધર્મના પુત્ર, સર્વ જીવોના હિત માટે માનવ રૂપ ધારણ કરનારા, ભક્તિનું પોષણ કરનારા, ઉદાર પરાક્રમવાળા, બ્રહ્મધામના સ્વામી અને પુરુષોત્તમ એવા ભગવાન. ॥૧॥
ગોલોકરૂપી બ્રહ્મધામમાં નિરતિશય દયાથી પરિપૂર્ણ અને આનંદમય મૂર્તિવાળા ભગવાન મારુ રક્ષણ કરો. તેમણે અસુરોના ગુરુએ નાશ કરેલા સનાતન ધર્મના માર્ગને પૃથ્વી પર કોસલ દેશમાં પુનઃસ્થાપિત કર્યો છે. ભક્તિ અને ધર્મ થી માનવ રૂપમાં પ્રગટ થયેલા, સર્વ પ્રાણીઓના સંસારને હરનારા, કલિયુગના મલને દૂર કરનારા અને સ્વામિનારાયણ નામવાળા શ્રી કૃષ્ણને હું મારા ચિત્તમાં ધ્યાન કરું છું. ॥૨॥
જય થાઓ શ્રીમાન્ સહજાનંદ સ્વામી ! સત્ય જગદ્ગુરુ ! જેમના ચરણોનો આશ્રય લેતાં જ સંસારના બંધન તરત જ તૂટી જાય છે. ॥૩॥
તે ઈશ્વર પોતાના આશ્રિતો પર કૃપા કરીને તેમના સંશયોના જાળને મૂળથી ઉખાડી નાખે છે અને અનેક અનુભવયુક્ત, સંપૂર્ણ ભક્તિથી ભરપૂર અમૃતસમાન વચનો બોલ્યા છે. ॥૪॥
સર્વના હિત માટે બસો વચનામૃતો અને તેના કરતાં વધુ બાવન વચનામૃતો – કુલ બસોને બાવન – તે સદ્પુરુષોએ (મુક્તાનંદ સ્વામી વગેરે) જેમ સાંભળ્યા તેમ સ્પષ્ટ શબ્દોમાં યથાશક્તિ લખ્યા છે. ॥૫॥
તે પ્રભુના આદેશથી અને તેમની તુષ્ટિ માટે હું શતાનંદ મુનિ આ તમામ વાણી-અમૃતને સુંદર, ઉદાર અને સ્પષ્ટ પદ્યોમાં લખું છું. ॥૬॥
जय हो श्रीहरि ! धर्म के पुत्र, सभी जीवों के हित के लिए मानव रूप धारण करने वाले, भक्ति का पोषण करने वाले, उदार पराक्रमी, ब्रह्मधाम के स्वामी और पुरुषोत्तम भगवान। ॥१॥
गोलोक रूपी ब्रह्मधाम में असीम दया से परिपूर्ण और आनंदमय मूर्ति वाले भगवान मेरी रक्षा करें। उन्होंने असुरों के गुरु द्वारा नष्ट किए गए सनातन धर्म के मार्ग को पृथ्वी पर कोसल देश में पुनः स्थापित किया है। भक्ति और धर्म के मानव रूप में प्रकट हुए, सभी प्राणियों के संसार को हरने वाले, कलियुग के मल को दूर करने वाले और स्वामिनारायण नाम वाले श्री कृष्ण का मैं अपने चित्त में ध्यान करता हूँ। ॥२॥
जय हो श्रीमान् सहजानंद स्वामी ! सत्य जगद्गुरु ! जिनके चरणों का आश्रय लेते ही संसार के बंधन तुरंत टूट जाते हैं। ॥३॥
वे ईश्वर अपने आश्रितों पर कृपा करके उनके संशयों के जाल को जड़ से उखाड़ फेंकते हैं और अनेक अनुभवयुक्त, पूर्ण भक्ति से भरपूर अमृत जैसे वचन बोले हैं। ॥४॥
सभी के हित के लिए दो सौ वचनामृत और उनसे अधिक बावन वचनामृत – कुल दो सौ बावन – वे सत्पुरुषों (मुक्तानंद स्वामी आदि) ने जैसे सुना वैसा ही स्पष्ट शब्दों में यथाशक्ति लिखा है। ॥५॥
उन प्रभु के आदेश से और उनकी तुष्टि के लिए मैं शतानंद मुनि उन सभी वाणी-अमृतों को सुंदर, उदार और स्पष्ट पद्यों में लिखता हूँ। ॥६॥
Victory to Shri Hari! The son of Dharma, who assumed human form for the welfare of all living beings, nurturer of devotion, of magnanimous valor, Lord of Brahmadham, and Purushottam Bhagwan. ॥1॥
May the Lord, whose form is full of boundless compassion and bliss in Golok, the Brahmadham, protect me. He has re-established the path of eternal Dharma on earth in the Kosal region, which had been destroyed by the guru of demons. I meditate in my heart upon Shri Krishna, known as Swaminarayan, who has manifested in human form with devotion and Dharma, who removes the worldly bondage of all beings, and who destroys the impurities of Kaliyuga. ॥2॥
Victory to the illustrious Sahajanand Swami, the true Jagadguru! Merely by taking refuge at His feet, the bonds of worldly existence are immediately severed. ॥3॥
By His grace upon His devotees, that Lord uproots the entire web of their doubts and spoke numerous nectar-like words filled with personal experiences and complete devotion. ॥4॥
For the benefit of all, two hundred Vachanamruts and additionally fifty-two more – totaling two hundred and fifty-two – were written by holy persons (Muktanand Swami and others) exactly as heard, in clear words, to the best of their ability. ॥5॥
By the command of that Lord and for His pleasure, I, Shatanand Muni, compose all those speech-nectars in beautiful, generous, and clear verses. ॥6॥
સેતુમાળા ટીકા - પ્રથમ આચાર્ય શ્રી રઘુવીરજી મહારાજ દ્વારા રચિત સંસ્કૃત ટીકા
श्रीहरिवाक्यसुधासिन्धौ उपोद्घातसहितं श्रीदुर्गपुरप्रथमप्रकरणम् ।#
॥ श्रीस्वामिनारायणाय नमः ॥ श्रीगणेशाय नमः ॥#
॥ श्रीसहजानन्दस्वामिने नमोनमः ॥#
श्रीहरिं सकलसिद्धिदायकं मङ्गलैकनिलयं सतां पतिम् । कायवाग्घृदयकैरहं सदा त्वां नमामि पितरं दयाम्बुधिम् ॥१॥
हे स्वामिन् पुरुषोत्तमाद्य ! सकलैश्वर्याभिजुष्ट ! प्रभो ! सर्वाधीश्वरसेव्यपादकमल ! श्रीब्रह्मधामाधिप ! । हे नारायण भक्तिधर्मसुत हे श्रीकृष्ण हे श्रीहरे मह्यं देहि भवत्पदाब्जयुगले भक्ति सदैकान्तिकीम् ॥२॥
प्रीतये रचये टीकां तव च त्वत्सतां मुदा । हरिवाक्यसुधासिन्धोः सेतुमालाभिधामहम् ॥३॥
पुत्रस्य भवदीयस्य रघुवीराभिधस्य मे । मनोरथोऽयं सफलः क्रियतां कृपया हरे ॥४॥
अथात्र भवान् शतानन्दमुनिः करिष्यमाणस्वप्रबन्धपठनपाठनादिद्वारानेकजीवानां संसृतिबन्धनिवृत्तिं दिव्यदृशा पर्यालोचयन् दुर्गपुरादिषु स्वभक्तसभासु श्रीहरिकथिता मुक्तानन्दादिमुनिभिः श्रुत्वा यथामतिलिखिता वार्तासुधाः समीक्ष्य तासां पद्यबन्धग्रन्थविरचनाय स्वयं भगवता श्रीहरिणा स्वस्मै कृतामाज्ञां च संस्मृत्य तासां श्रीहरिवाक्यसुधासिन्धुनामकं ग्रन्थं विरचयंस्तत्रोपोद्घातमुखेन श्रीसत्सङ्गिजीवनग्रन्थोक्तानि श्रीहरेः सङ्क्षेपतो जन्मादिचरित्राणि तत्रानुक्ताः श्रीहरेः सचिह्नस्वाभाविकचेष्टाश्च कथयिष्यन्नादौ प्रारिप्सितग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थं शिष्टाचारपरिप्राप्तं स्वकीयेष्टदेववस्तुनिर्देशात्मकं मङ्गलमाचरति श्लोकत्रयेण ।
श्रीहरिरिति । धर्मनन्दनो धर्मापरपर्यायहरिप्रसादविप्रसुतः । यद्वा । प्रादुर्भूयाधर्मोच्छेदपूर्वकं पोषणविधानेन धर्मस्य नन्दन आनन्दोत्पादकः । सर्वेषां जीवानां हितायात्यन्तिकनिःश्रेयसरूपं हितं कर्तुं मानुषस्य नरस्येवाकृतिर्मूर्तिर्यस्य सः । भक्तिपोषकः स्वकीयैकान्तिकभक्तिपोषणकर्ता । यद्वा । भक्तिं स्वमातरं पोषयति स्वबालक्रीडाप्रदर्शनेनात्यानन्दपुष्टां करोतीति । स्वजनन्यै अत्यानन्दप्रद इत्यर्थः । यद्वा । भक्तिं स्वमातरं पुष्णाति स्वस्वरूपज्ञानोपदेशेनालौकिकानन्दपुष्टां करोतीति । स्वमात्रे हरिगीतोपदेशपूर्वकं स्वस्वरूपज्ञानप्रदानेनानन्दजनक इत्यर्थः । उदारोऽतिमहान् विक्रमः साधनसम्पत्तिनिरपेक्षं यादृशतादृशजनस्यापि महासमाधिविधापनरूपः पराक्रमो यस्य सः । यद्वा । उदारोऽतिमहान् विक्रमोऽसुरांशगुरुभूपपराभवविधानरूपः पराक्रमो यस्य सः । यद्वा । उदारेषु दातृजनेषु विक्रमोऽतिदानशूरत्वरूपः पराक्रमो यस्य सः । यद्दानवीरतामवलोक्यान्ये दातारो जनाः सशिरः कम्पयद्दानातिशयतां प्रशंसन्ति तथाविध इत्यर्थः । यद्वा । उदारा ध्यानवतां स्वस्मृतिप्रदानदक्षिणा विक्रमाः पादसंचारा यस्य सः । ‘उदारो दातृमहतोर्दक्षिणेऽप्यभिधेयवदिति मेदिनी । ब्रह्मधाम्नोऽक्षरपदपर्यायब्रह्मपुरस्य पतिः स्वामी । पूरुषेषु क्षराक्षरपुरुषेषूत्तमः स्वरूप-स्वभाव-गुण-विभूत्यादिभिरत्युत्कृष्ट उत्तमपुरुषः स चासौ स च । ‘स्वधामनि ब्रह्मणि रंस्यते नम’ इति श्रीभागवते (भा. २-४-१४) । ‘उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृत’ इति भगवद्गीतायां चोक्ते: । (गी. १५-१७) श्रीहरिः स्वाश्रितजनानां स्वधामन्यलौकिकवैभवैश्वर्यप्रदः श्रीहरिकृष्णो भगवान् । जयति स्वस्य तिरोधानलीलाचरणसत्त्वेऽपि यथापूर्वं स्वप्रवर्तितभागवतधर्मेषु स्वभक्तजनरक्षणेन स्वभक्तानां नानापद्भ्यो रक्षणविधानादिना च सर्वोत्कर्षेण वर्तते (रथो. वृत्तम्) ॥१॥
गोलोकेति । निर्गतोऽतिशयो यस्याः सा चासौ दया निष्कारणकरुणा तया पूर्णः सम्भृतस्तम् । पाथसां सागर इव निरवधिकातिशयदयायाः समुद्रो यस्तमित्यर्थः । ‘आनन्द एकैकस्माच्छतशतगुणतया सैषानन्दस्य मीमांसा’ (तैत. २–१७) । इत्यादिश्रुतिषु निरतिशयदशाशिरस्कोऽभ्यस्यमानः परमानन्दो मूर्ती यस्य तम् । यद्वा । आनन्दं करोतीत्यानन्दयति आनन्दयतीत्यानन्दा स्वेक्षकजनात्यानन्दकर्त्री मूर्तिर्यस्य तम् । यां वीक्ष्य जना आनन्दसन्दोहमग्ना भवन्ति तथाविधरमणीयमूर्तिमित्यर्थः । अत एव भूतले भारतभूभागे । असुरगुरुभिरसुरांशसम्भूतदेशिकैर्विहतं विनाशितम् । सन् हिंसादिदोषवर्जितत्वादभ्यर्हितो यो धर्म एकान्तिकधर्मस्तस्य वर्त्म मार्गस्तत् । पातुं तद्द्द्द्रोग्धृनसुरगुरून् पराभाव्य पोषणपूर्वं रक्षितुम् । गोलोकब्रह्मधाम्नो गोलोकमध्यवर्त्यक्षरपदात् सकाशात् कोसलेषु कोशलदेशवर्तिछुप्पयोऽभिधग्रामे इत्यर्थः । धर्मात् धर्मापरसंज्ञहरिप्रसादविप्रात् भक्तौ भक्त्यपरपर्यायप्रेमवतीसंज्ञायां तत्पत्ल्याम् । नृमूर्त्या मनुष्याकारेण । समुदितमाविर्भूतम् अखिलानां सकलानां प्राणिनां स्वाश्रितजीवानां संसारं जन्ममरणप्रवाहं हरतीति तं तथाभूतम् । कलिमलान् स्वाश्रितजीवानां कामक्रोधादिकलिकल्मषाणि हरतीति तम् । स्वामिनारायण इत्याख्या नाम यस्य तम् कृष्णं श्रीहरिकृष्णभगवन्तम् । चित्ते मानसे । ध्यायामि सर्वदा चिन्तयामि (स्रग्धरा) ॥२॥
स इति । यत्पादाश्रयमात्राद्यदीयचरणकमलसंश्रयमात्रत एव । संसारबन्धनमनादि दुर्जरसंसृतिपाशावृत्तिः सद्यस्तत्क्षणमेव । त्रुट्यति विछिन्नं भवति । सत्यः ‘सत्यस्य सत्य’मिति (बृह. उ. २-१-२०) श्रुतेः परमार्थसत्यस्वरूपः । जगद्गुरुर्जगतामेक एव परमनिः श्रेयसप्राप्त्युपायरूपहितोपदेष्टा । यद्वा । मोक्षमार्गरिपुकामक्रोधादि- त्याजनपूर्वकपरमनिःश्रेयसप्राप्त्युपायस्य यथार्थमुपदेशशीलत्वात् सत्यः परमार्थो जगद्गुरुः । श्रीमान् स्वाश्रयमात्रेण स्वाश्रितानां कालमायाबन्धनविनाशनशोभायुक्तः । स इत्थं भूतगुणः । सहजः स्वभावसिद्ध आनन्दो यस्य सः स्वं कालमायाक्षरब्रह्मादीनां नियमनलक्षणैश्वर्यमस्यास्तीति स चासौ स च एवमन्वर्थसंज्ञः श्रीहरिकृष्णो भगवान् । जयति स्वाश्रितजनानामन्तः शत्रूनभिभावयन् सर्वोत्कर्षेण वर्तते ॥३॥
अथैतद्ग्रन्थविरचननिदानमाह त्रिभिः । निजेति । ईशः कालमायादिसर्वनियन्ता । स श्रीहरिः । निजाश्रितानां कृतस्वकीयैकाश्रयाणाम् । पुंसां जनानाम् । संशयजालं जीवेशमायाब्रह्मपरब्रह्मणां स्वधर्मवैराग्यभक्त्यादीनां च स्वरूपज्ञानगतानेकसंशयसमूहम् । कृपया । उन्मूलयन्मूलादुत्पाटयितुमित्यर्थः । अनुभूतियुञ्जि स्वकीयानुभवयुक्तानि । भूयांसि बहूनि । साङ्गा स्वधर्मजीवादिस्वरूपज्ञानवैराग्यरूपाङ्गसहिता या स्वभक्तिः स्वस्यैकान्तिकभक्तिस्तया आढ्यानि सम्पन्नानि यानि वचोऽमृतानि वार्तासुधास्तानि । जगाद दुर्गपुरादिषु स्वभक्तजनसंसत्सु निजाश्रितान् प्रति कथयामास । (उपजाति) ॥४॥
शतेति । तेषां वचोऽमृतानां मध्ये । द्विषष्ट्या । अधिकम् । शतद्वयम् । मुक्तानन्दादिभिः । सद्भिः साधुभिः आदिशब्दाद्गोपालानन्दनित्यानन्दब्रह्मानन्दशुकानन्दमुनीनां ग्रहणमेतद्ग्रन्थान्ते तथैव वक्ष्यमाणत्वात् । यथाश्रुतं श्रीहर्युक्तवचनश्रवणमनतिक्रम्य । यथामनीषं यथास्वमति । साधु सम्यग्यथातथा । सर्वहिताय । स्पष्टैः । वर्णैरक्षरैः । अलेखि लिखितमभूत् ॥५॥
तावन्तीति । शतानन्दमुनिः । अहम् । तावन्ति द्विषष्ट्याधिकशतद्वयपरिमितानि । वागमृतानि वचनामृतानि । प्रभोः कालमायाक्षरादिनियमनसमर्थस्य । तस्य श्रीहरेः । निदेशेन प्राक्कृतैतद्ग्रन्थविरचनाज्ञया हेतुना । तदीयतुष्ट्यै श्रीहर्याश्रितसकलसद्भक्तजनप्रीत्यै । सुसौष्ठवं शोभनशब्दसामर्थ्यं चौदार्यमर्थसंपत्तिश्च तन्मयैः प्रचुरसुसौष्ठवौदार्ययुक्तैरित्यर्थः । सुपद्यैः प्रायोऽनुष्टुब्वृत्तैः सुश्लोकैः । स्फुटं स्पष्टं यथातथा । दृभामि हरिवाक्यसुधासिन्धुग्रन्थरूपेण ग्रन्थामि ॥६॥
ઉપોદ્ઘાત#
જય થાઓ શ્રીહરિ ! સર્વ સિદ્ધિઓ આપનારા, મંગલનું એકમાત્ર નિવાસસ્થાન, સદ્પુરુષોના સ્વામી, કાયા, વાણી અને હૃદયથી હું હંમેશા તમને નમન કરું છું, દયાના સમુદ્ર અને પિતા સમાન ભગવાન. ॥૧॥
હે સ્વામી ! પુરુષોત્તમાદિ ! સર્વ ઐશ્વર્યોથી સંપન્ન ! પ્રભુ ! સર્વાધીશ્વરો દ્વારા સેવાયેલા ચરણકમળવાળા ! શ્રી બ્રહ્મધામના અધિપતિ ! હે નારાયણ ! ભક્તિ અને ધર્મના પુત્ર ! હે શ્રી કૃષ્ણ ! હે શ્રી હરિ ! મને તમારા બંને ચરણકમળોમાં સદૈવ એકાંતિક ભક્તિ આપો. ॥૨॥
તમારી અને તમારા ભક્તોની પ્રીતિ માટે હું આનંદથી તમારા ‘હરિવાક્યસુધાસિંધુ’ની ‘સેતુમાળા’ નામની ટીકા રચું છું. ॥૩॥
હે હરિ ! તમારા પુત્ર રઘુવીર નામવાળા મારો આ મનોરથ તમારી કૃપાથી સફળ કરો. ॥૪॥
(મઙ્ગલાચરણ શ્લોક ૧-૬)#
અહીં શ્રી શતાનંદ મુનિ પોતાના રચનાર ગ્રંથના પઠન-पाठન વગેરે દ્વારા અનેક જીવોના સંસાર-બંધનમાંથી મુક્તિને દિવ્ય દૃષ્ટિએ જોઈને, દુર્ગપુર વગેરે સ્થાનોમાં પોતાની ભક્ત-સભાઓમાં શ્રીહરિ-કથા કહેનાર મુક્તાનંદ વગેરે મુનિઓ પાસેથી સાંભળેલી, પોતાની મતિ અનુસાર લખેલી અમૃતમયી વાર્તા-સુધાઓની સમીક્ષા કરે છે.
ત્યારપછી, સ્વયં ભગવાન્ શ્રીહરિએ પોતાના પ્રત્યે આપેલી આજ્ઞાનું સ્મરણ કરીને, તે વાર્તાઓને પદ્યબદ્ધ ગ્રંથરૂપે રચવાનો સંકલ્પ કરીને તેમાંથી “શ્રીહરિવાક્યસુધાસિંધુ” નામના ગ્રંથની રચના કરે છે.
આ ગ્રંથમાં ઉપોદ્ઘાતરૂપે, શ્રીસત્સઙ્ગિજીવન ગ્રંથમાં વર્ણવેલા શ્રીહરિના જન્મ વગેરે ચરિત્રોનું સંક્ષેપમાં વર્ણન કરવા તેમજ ત્યાં ન કહેવાયેલા શ્રીહરિના સચિહ્ન અને સ્વાભાવિક ચેષ્ટાઓનું વર્ણન કરવાની ઇચ્છા રાખીને, સૌપ્રથમ આરંભ કરવામાં આવતા ગ્રંથની નિર્વિઘ્ન પરિસમાપ્તિ માટે શિષ્ટાચાર પ્રમાણે પોતાના ઇષ્ટદેવનો નિર્દેશ કરતું મઙ્ગલાચરણ ત્રણ શ્લોકો દ્વારા કરે છે.
ધર્મના અપર પર્યાય હરિપ્રસાદ નામના વિપ્રથી ઉત્પન્ન થયેલા અથવા અધર્મનો ઉચ્છેદ કરીને અને પોષણ-વિધાન દ્વારા ધર્મને આનંદ આપનારા. બધા જીવોના પરમ હિત માટે અત્યન્તિક નિઃશ્રેયસરૂપ કલ્યાણ કરવા માટે મનુષ્ય જેવી આકૃતિ-મૂર્તિ ધારણ કરનારા. પોતાની એકાન્તિક ભક્તિનું વિશેષ પોષણ કરનારા અથવા ભક્તિરૂપી માતાનું પોષણ કરનારા — પોતાની બાલ-લીલાઓના પ્રદર્શનથી તેને અત્યધિક આનંદથી પુષ્ટ કરનારા, આ અર્થમાં પોતાની જન્મદાત્રી માતાને પરમ આનંદ આપનારા અથવા પોતાના સ્વરૂપ-જ્ઞાનના ઉપદેશ દ્વારા તેને અલૌકિક આનંદથી પરિપૂર્ણ કરનારા — હરિગીતા-ઉપદેશ પૂર્વક સ્વરૂપ-જ્ઞાન આપીને આનંદ ઉત્પન્ન કરનારા.
અત્યન્ત મહાન પરાક્રમવાળા — સાધન-સમ્પત્તિની અપેક્ષા વગર કોઈપણ પ્રકારના જનને મહાસમાધિ આપવાની સામર્થ્ય ધરાવનારા અથવા અસુરો, અંશો, ગુરુ-દ્રોહીઓ તથા દુષ્ટ રાજાઓના પરાભવનું વિધાન કરનારા અથવા ઉદાર દાતાઓમાં પણ શ્રેષ્ઠ દાનવીર — જેમની અતિદાન-શૂરતા જોઈને અન્ય દાતા જનો માથું હલાવીને તેમના દાનની અતિશયતાની પ્રશંસા કરે છે અથવા ધ્યાન કરનારાઓને પોતાની સ્મૃતિ આપવામાં દક્ષ અને પગના સંચારરૂપ પરાક્રમવાળા. (મેદિની કોશમાં ‘ઉદાર’ શબ્દ દાતા, મહાન તથા દક્ષિણાના અર્થમાં પ્રયોજાયો છે.)
અક્ષર-પદના પર્યાય બ્રહ્મપુરના સ્વામી. ક્ષર અને અક્ષર પુરુષોથી પણ ઉત્તમ — સ્વરૂપ, સ્વભાવ, ગુણ અને વિભૂતિ વગેરેથી અત્યન્ત ઉત્કૃષ્ટ પરમ પુરુષ. શ્રીમદ્ભાગવતમાં કહ્યું છે — “સ્વધામનિ બ્રહ્મણિ રમ્યતે નમ” (ભા. ૨.૪.૧૪) અને ભગવદ્ગીતામાં કહ્યું છે — “ઉત્તમઃ પુરુષસ્ત્વન્યઃ પરમાત્મેત્યુદાહૃતઃ” (ગી. ૧૫.૧૭).
પોતાના આશ્રિત જનોને પોતાના ધામમાં અલૌકિક વૈભવ અને ઐશ્વર્ય આપનારા ભગવાન્ શ્રીહરિકૃષ્ણ. પોતાની તિરોધાન-લીલા પછી પણ પૂર્વવત્ પ્રવર્તિત ભાગવત ધર્મો દ્વારા પોતાના ભક્તજનોની રક્ષા કરતાં, તેમને નાના-નાના સંકટોથી સુરક્ષિત રાખીને સર્વોત્કર્ષરૂપે વિરાજમાન રહે છે. ॥૧॥
જે દયાની કોઈ સીમા કે અતિશય નથી — એવી નિષ્કારણ કરુણાથી પૂર્ણ અને પરિપૂર્ણ. સમુદ્રની જેમ અસીમ અને અતિશય દયાનો સમુદ્ર — જેમની દયા સાગર જેવી અનન્ત અને અપાર છે. “એક-એક આનંદ સો-સો ગણો વધતો જાય છે — આ પ્રકારે તે આનંદની મીમાંસા કરવામાં આવે છે.” (તૈત્તિરીય ઉપનિષદ્ ૨.૮) ઇત્યાદિ શ્રુતિઓમાં વર્ણવેલ જે નિરતિશય અવસ્થાના શિરોમણિ પરમાનંદ છે, તેની મૂર્તિ જેમની છે. અથવા જે આનંદ ઉત્પન્ન કરે છે અને દર્શન કરનાર જનોને આનંદ આપે છે — જેમની મૂર્તિના દર્શન માત્રથી લોકો આનંદના સાગરમાં ડૂબી જાય છે — એવી અત્યન્ત રમણીય મૂર્તિવાળા.
આ જ કારણે તે ભૂતલે ભારતવર્ષમાં અવતર્યા. અસુરોના ગુરુઓ તથા અસુર-અંશથી ઉત્પન્ન દુષ્ટ આચાર્યો દ્વારા જે ધર્મ નાશ પામ્યો હતો તે હિંસા વગેરે દોષોથી રહિત અને પૂજનીય એકાન્તિક ધર્મના માર્ગની રક્ષા કરવા માટે — તે ધર્મના દ્રોહી અસુર-ગુરુઓને પરાજિત કરીને પોષણ સહિત રક્ષા કરવા માટે.
જેમના ચરણોના આશ્રય માત્રથી કે ચરણકમલોની શરણ માત્રથી જ અનાદિ અને અત્યન્ત દુર્જય સંસારનું બંધન તુરન્ત ટૂટી જાય છે. ‘સત્યસ્ય સત્યમ્’ — બૃહદારણ્યક ઉપનિષદ્ (૨.૧.૨૦)ની શ્રુતિ અનુસાર પરમાર્થ-સત્ય સ્વરૂપવાળા. સમગ્ર જગતને પરમ નિઃશ્રેયસ (મોક્ષ) પ્રાપ્તિના ઉપાયરૂપ હિતનો ઉપદેશ આપનારા એકમાત્ર ગુરુ અથવા મોક્ષમાર્ગના શત્રુ કામ, ક્રોધ વગેરેનો ત્યાગ કરાવીને પરમ નિઃશ્રેયસ પ્રાપ્તિના ઉપાયનો યથાર્થ ઉપદેશ આપવાની શીલતાને કારણે પરમાર્થસ્વરૂપ જગદ્ગુરુ.
પોતાના આશ્રય માત્રથી જ પોતાના ભક્તોના કાળ અને માયાના બંધનોનો વિનાશ કરવાની શોભાથી યુક્ત. આ પ્રકારના દિવ્ય ગુણોથી સમ્પન્ન. સ્વભાવથી જ સિદ્ધ આનંદવાળા. જેમની પાસે કાળ, માયા, અક્ષરબ્રહ્મ વગેરેના નિયમનરૂપ ઐશ્વર્ય છે — એવા અને જેમનું નામ પૂર્ણ અર્થવાળું છે — એવા શ્રીહરિકૃષ્ણ ભગવાન્ પોતાના આશ્રિત જનોના કામ, ક્રોધ વગેરે આન્તરિક શત્રુઓને પૂર્ણતઃ જીતીને સર્વોત્કર્ષરૂપે વિરાજમાન રહે છે. ॥૩॥
કાળ, માયા વગેરે સર્વ તત્ત્વોના નિયન્તા શ્રીહરિ પોતાના તે આશ્રિત ભક્તોના — જેમણે તેમને જ એકમાત્ર આશ્રય માન્યો છે — જીવ, ઈશ્વર, માયા, બ્રહ્મ, પરબ્રહ્મ તથા સ્વધર્મ, વૈરાગ્ય, ભક્તિ વગેરેના સ્વરૂપ-જ્ઞાનને લગતા અનેક પ્રકારના સંશયોના જાળાને પોતાની કૃપાથી મૂળ સહિત ઉખાડી ફેંકવાના હેતુથી, પોતાના પ્રત્યક્ષ અનુભવથી યુક્ત અનેક અમૃતતુલ્ય વચનો — જે સ્વધર્મ, જીવ વગેરેના સ્વરૂપ-જ્ઞાન તથા વૈરાગ્યરૂપ અંગોથી યુક્ત તેમની પોતાની એકાન્તિક ભક્તિથી સમ્પન્ન છે — દુર્ગપુર વગેરે સ્થાનોમાં આવેલી પોતાની ભક્તજનોની સભાઓમાં પોતાના આશ્રિત ભક્તોને ઉપદેશરૂપે કહી. ॥૪॥
તે અમૃતરૂપ વચનોમાંથી
હું, શતાનંદ મુનિ, એટલી જ સંખ્યામાં (૨૬૨) વચનામૃત — જે કાળ, માયા, અક્ષર વગેરેના નિયમનમાં સમર્થ શ્રીહરિની પૂર્વે મળેલી ગ્રંથ-રચનાની આજ્ઞાના કારણે, તેમની પ્રસન્નતા તથા શ્રીહરિના આશ્રિત સમસ્ત સત્ભક્તજનોની પ્રીતિ માટે ઉત્તમ શબ્દ-સૌન્દર્ય તથા ઉદાર અને સમૃદ્ધ અર્થ-સંપદાથી સમ્પન્ન, મોટે ભાગે અનુષ્ટુપ્ છન્દમાં રચાયેલા સુશ્લોકો દ્વારા સ્પષ્ટ અને યથાર્થ રીતે ‘હરિવાક્યસુધાસિંધુ’ નામક ગ્રંથરૂપે સંકલિત કરું છું. ॥૬॥
उपोद्घात#
શ્રીહરિ स्तुति
जय हो श्रीहरि! आप सर्व सिद्धियों के दाता, मंगल का एकमात्र निवासस्थान, सद्गुणी पुरुषों के स्वामी, और काया, वाणी और हृदय से पूजनीय पिता समान भगवान हैं। मैं सदा आपको नमन करता हूँ। ॥१॥
हे स्वामी! पुरुषोत्तम आदि! आप सर्व ऐश्वर्यों से सम्पन्न हैं। प्रभु! आप सर्वाधीश्वरों द्वारा पूजनीय चरणकमलों वाले, श्री ब्रह्मधाम के अधिपति, हे नारायण! भक्ति और धर्म के पुत्र! हे श्रीकृष्ण! हे श्रीहरि! कृपया मुझे अपने चरणकमलों में सदैव एकान्तिक भक्ति प्रदान करें। ॥२॥
आपकी और आपके भक्तों की प्रीति के लिए मैं आनंदपूर्वक आपके ‘हरिवाक्यसुधासिंधु’ ग्रंथ की ‘सेतुमाला’ नामक टीका रचता हूँ। ॥३॥
हे हरि! आपके पुत्र रघुवीर के नाम से मेरा यह मनोव्रत आपकी कृपा से सफल हो। ॥४॥
अब यहाँ भगवान् शतानन्द मुनि, अपने द्वारा रचे जाने वाले प्रबन्ध के पठन–पाठन आदि के माध्यम से अनेक जीवों की संसृति-बन्धन से मुक्ति को दिव्य दृष्टि से देखते हुए, दुर्गपुर आदि स्थानों में अपनी भक्त-सभाओं में श्रीहरि-कथा का प्रवचन करने वाले मुक्तानन्द आदि मुनियों से सुनी हुई, यथामति लिखित अमृतमयी वार्ता-सुधाओं की समीक्षा करते हैं।
तत्पश्चात, स्वयं भगवान् श्रीहरि द्वारा अपने प्रति दी गई आज्ञा का स्मरण करके, उन वार्ताओं को पद्यबद्ध ग्रन्थ के रूप में रचने का संकल्प करते हैं और उन वार्ताओं से “श्रीहरिवाक्यसुधासिन्धु” नामक ग्रन्थ की रचना करते हैं।
उस ग्रन्थ में उपोद्घात के रूप में, श्रीसत्सङ्गिजीवन ग्रन्थ में वर्णित श्रीहरि के जन्म आदि चरित्रों का संक्षेप में वर्णन करने तथा वहाँ अप्रयुक्त रहे श्रीहरि के सचिह्न और स्वाभाविक चेष्टाओं का वर्णन करने की अभिलाषा रखते हुए, सर्वप्रथम आरम्भ किए जाने वाले ग्रन्थ की निर्विघ्न परिसमाप्ति के लिए, शिष्टाचार से प्राप्त परम्परा के अनुसार, अपने इष्टदेव का निर्देश करने वाला मङ्गलाचरण तीन श्लोकों द्वारा करते हैं।
श्रीहरिः —
धर्मनन्दनः धर्म के अपर पर्याय हरिप्रसाद नामक विप्र से उत्पन्न। अथवा — अधर्म का उच्छेद करके तथा पोषण-विधान द्वारा धर्म को नन्दन अर्थात् आनन्द प्रदान करने वाले।
नराकृतिः सभी जीवों के परम हित के लिए अत्यन्तिक निःश्रेयस रूप कल्याण करने हेतु मनुष्य के समान आकृति-मूर्ति धारण करने वाले।
भक्तिपोषकः अपनी एकान्तिक भक्ति का विशेष रूप से पोषण करने वाले। अथवा — भक्ति रूपी माता का पोषण करने वाले, अर्थात् अपनी बाल-लीलाओं के प्रदर्शन से उसे अत्यधिक आनन्द से पुष्ट करने वाले—इस अर्थ में अपनी जन्मदात्री माता को परम आनन्द देने वाले।
अथवा — भक्ति रूपी माता का पोषण करने वाले, अर्थात् अपने स्वरूप-ज्ञान के उपदेश द्वारा उसे अलौकिक आनन्द से परिपूर्ण करने वाले—इस अर्थ में हरिगीता-उपदेशपूर्वक स्वरूप-ज्ञान प्रदान कर आनन्द उत्पन्न करने वाले।
उदारविक्रमः अत्यन्त महान् पराक्रम वाले, अर्थात् साधन-सम्पत्ति की अपेक्षा किए बिना किसी भी प्रकार के जन को महासमाधि प्रदान करने की सामर्थ्य रखने वाले। अथवा — अत्यन्त महान् पराक्रम वाले, अर्थात् असुरों, अंशों, गुरु-द्रोहियों तथा दुष्ट भूपों के पराभव का विधान करने वाले। अथवा — उदार दाताओं में भी श्रेष्ठ दानी, जिनकी अतिदान-शूरता को देखकर अन्य दाता जन सिर हिलाकर उनके दान की अतिशयता की प्रशंसा करते हैं। अथवा — उदार अर्थात् ध्यान करने वालों को अपनी स्मृति प्रदान करने में दक्ष, तथा विक्रम अर्थात् पाद-सञ्चार रूप पराक्रम वाले।
(मेदिनी कोश में ‘उदार’ शब्द दाता, महान् तथा दक्षिणा के अर्थ में प्रयुक्त बताया गया है।)
ब्रह्मधामपतिः —
अक्षर-पद के पर्याय ब्रह्मपुर के स्वामी।
क्षराक्षरपुरुषोत्तमः —
क्षर और अक्षर पुरुषों से भी उत्तम, अर्थात् स्वरूप, स्वभाव, गुण और विभूति आदि से अत्यन्त उत्कृष्ट परम पुरुष।
श्रीमद्भागवत में कहा गया है —
“स्वधामनि ब्रह्मणि रम्यते नम”
(भागवत २.४.१४)
तथा भगवद्गीता में कहा गया है —
“उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः”
(गीता १५.१७)
श्रीहरिःजयति —
अपने आश्रित जनों को अपने धाम में अलौकिक वैभव और ऐश्वर्य प्रदान करने वाले भगवान् श्रीहरिकृष्ण।
अपनी तिरोधान-लीला के पश्चात् भी, यथापूर्व प्रवर्तित भागवत धर्मों के माध्यम से अपने भक्तजनों की रक्षा करते हुए, उन्हें नाना आपदाओं से सुरक्षित रखकर, सर्वोत्कर्ष रूप से विराजमान रहते हैं। ॥१॥
गोलोकेति —
निर्गतः अतिशयः यस्याः सा —
जिस दया की कोई सीमा या अतिशय नहीं है, ऐसी निष्कारण करुणा;
तया पूर्णः — उसी से पूर्ण और परिपूर्ण।
पाथसाम् इव — जलराशि के समान।
निरवधिकातिशयदयायाः समुद्रः — असीम और अतिशय दया का समुद्र।
यः तम् — अर्थात् जिसकी दया सागर के समान अनन्त और अपार है—ऐसा।
“एक-एक आनन्द सौ-सौ गुणा बढ़ता जाता है—इस प्रकार उस आनन्द की मीमांसा की जाती है।”
(तैत्तिरीय उपनिषद् २.८)
इत्यादि श्रुतियों में निरूपित जिस निरतिशय अवस्था का शिरोमणि परमानन्द है, उसकी मूर्ति जिनकी है—ऐसे।
अथवा —
आनन्दं करोति इति आनन्दयति — जो आनन्द उत्पन्न करते हैं;
आनन्दयति इति आनन्दा — जो दर्शन करने वाले जनों को आनन्द प्रदान करते हैं।
अर्थात् जिनकी मूर्ति दर्शन मात्र से लोगों को आनन्द के सागर में निमग्न कर देती है—ऐसी अत्यन्त रमणीय मूर्ति जिनकी है।
अत एव —
इसी कारण वे भूतले भारतभूभागे, अर्थात् पृथ्वी पर भारतवर्ष में अवतरित हुए।
असुरगुरुभिः असुरांशसम्भूतदेशिकैः —
असुरों के गुरुओं तथा असुर-अंश से उत्पन्न दुष्ट आचार्यों द्वारा
विहतम्, विनाशितम् — जो धर्म नष्ट किया गया था।
सन् — वह जो
हिंसादिदोषवर्जितत्वात् अभ्यर्हितः — हिंसा आदि दोषों से रहित होने के कारण पूजनीय,
यः एकान्तिकधर्मः — जो एकान्तिक धर्म है,
तस्य वर्त्म — उसके मार्ग की
पातुम् — रक्षा करने के लिए,
तद्द्रोहीन् असुरगुरून् पराभाव्य — उस धर्म के द्रोही असुर-गुरुओं को पराजित करके,
पोषणपूर्वं रक्षितुम् — पोषण सहित रक्षा करने के लिए।
गोलोकब्रह्मधाम्नः — गोलोक रूप ब्रह्मधाम से,
गोलोकमध्यवर्त्यक्षरपदात् सकाशात् — उसके मध्य स्थित अक्षरपद से,
कोसलेषु — कोसल देश में,
छप्पयोऽभिधग्रामे — छपैया नामक ग्राम में—इस प्रकार।
धर्मात् — धर्म नामक (धर्म का अपर नाम हरिप्रसाद) विप्र से,
भक्तौ — भक्ति नामक (जिसका अपर नाम प्रेमवती है) उनकी पत्नी से,
नृमूर्त्या — मनुष्याकार में
समुदितम्, आविर्भूतम् — प्रकट हुए।
वे ऐसे हैं जो
अखिलानां सकलानां प्राणिनां स्वाश्रितजीवानां — समस्त प्राणियों तथा अपने आश्रित जीवों के
जन्म–मरणरूप संसारप्रवाहं हरति — जन्म–मरण रूप संसार का नाश कर देते हैं।
कलिमलान् — कलियुग के मल,
स्वाश्रितजीवानां कामक्रोधादिकलिकल्मषाणि हरति — अपने आश्रित जीवों के काम, क्रोध आदि कलिकल्मषों को भी हर लेते हैं।
स्वामिनारायण इत्याख्या नाम यस्य तम् —
जिसका नाम स्वामिनारायण है—ऐसे
कृष्णं श्रीहरिकृष्णभगवन्तम् —
भगवान् श्रीहरिकृष्ण को
चित्ते मानसे ध्यायामि —
अपने मन में ध्यान करता हूँ,
सर्वदा चिन्तयामि — सदा चिन्तन करता हूँ।
(यह श्लोक स्रग्धरा छन्द में है।) ॥२॥
स इति —
यत् पादाश्रयमात्रात् — जिनके चरणों के आश्रय मात्र से;
यदीय चरणकमलसंश्रयमात्रत एव — जिनके चरणकमलों की शरण मात्र से ही,
संसारबन्धनम् — संसार का बन्धन,
अनादि दुर्जर संसृति-पाशावृत्तिः — अनादि और अत्यन्त दुर्जय संसृति के पाशों की आवृत्ति,
सद्यः, तत्क्षणमेव त्रुट्यति — तुरन्त, उसी क्षण टूट जाती है, विच्छिन्न हो जाती है।
सत्यः —
‘सत्यस्य सत्यम्’—इस बृहदारण्यक उपनिषद् (२.१.२०) की श्रुति के अनुसार
परमार्थ-सत्य स्वरूप वाले।
जगद्गुरुः — समस्त जगत् को परम निःश्रेयस (मोक्ष) प्राप्ति के उपाय रूप हित का उपदेश देने वाले एकमात्र गुरु। अथवा — मोक्षमार्ग के शत्रु काम, क्रोध आदि का त्याग कराकर
परम निःश्रेयस की प्राप्ति के उपाय का यथार्थ उपदेश देने की शीलता के कारण
सत्यः परमार्थः जगद्गुरुः — अर्थात् परमार्थ-स्वरूप जगद्गुरु।
श्रीमान् — अपने आश्रय मात्र से ही अपने भक्तों के
काल और माया के बन्धनों का विनाश करने की शोभा से युक्त।
सः इत्थं भूतगुणः — इस प्रकार के दिव्य गुणों से सम्पन्न।
सहजः — स्वभाव से ही सिद्ध।
आनन्दः यस्य सः — जिनका आनन्द स्वाभाविक है।
स्वम् — अपना।
कालमाया-अक्षरब्रह्मादीनां नियमनलक्षणम् ऐश्वर्यम् अस्य अस्ति इति — जिनके पास काल, माया, अक्षरब्रह्म आदि के नियमन रूप ऐश्वर्य विद्यमान है—ऐसे।
सः च असौ, सः च — वह भी और वही भी।
एवम् अन्वर्थसंज्ञः — इस प्रकार जिनका नाम पूर्णतः अर्थ से युक्त है।
श्रीहरिकृष्णः भगवान् — ऐसे श्रीहरिकृष्ण भगवान्
जयति — अपने आश्रित जनों के काम, क्रोध आदि आन्तरिक शत्रुओं को पूर्णतः अभिभूत करके सर्वोत्कर्ष रूप से विराजमान रहते हैं। ॥३॥
अथ एतद् ग्रन्थ-विरचन-निदानम् आह त्रिभिः — ‘निजेति’।
ईशः — जो काल, माया आदि समस्त तत्त्वों के नियन्ता हैं।
सः श्रीहरिः — वे श्रीहरि,
निजाश्रितानाम् — अपने उन आश्रित भक्तों के, जिन्होंने उन्हें ही एकमात्र आश्रय माना है,
पुंसां जनानाम् — अर्थात् मनुष्यों के,
संशयजालम् — जीव, ईश्वर, माया, ब्रह्म, परब्रह्म तथा स्वधर्म, वैराग्य, भक्ति आदि के स्वरूप-ज्ञान से सम्बन्धित अनेक प्रकार के संशयों के समूह को
कृपया उन्मूलयन् — अपनी कृपा से मूल सहित उखाड़ फेंकने के उद्देश्य से,
अनुभूतियुञ्जि — अपने प्रत्यक्ष अनुभूत ज्ञान से युक्त,
भूयांसि — अनेक,
साङ्गा स्वभक्तिः — स्वधर्म, जीव आदि के स्वरूप-ज्ञान तथा वैराग्य रूप अंगों से युक्त जो उनकी अपनी एकान्तिक भक्ति है, उससे सम्पन्न,
वचोऽमृतानि — अमृततुल्य वचन, अर्थात् वार्ता-सुधाएँ,
जगाद — दुर्गपुर आदि स्थानों में स्थित अपने भक्तजनों की सभाओं में अपने आश्रित भक्तों के प्रति उपदेश रूप में कहे।
(यह श्लोक उपजाति छन्द में है।) ॥४॥
शतेति।
तेषां वचोऽमृतानां मध्ये — उन अमृतरूप वचनों में से,
द्विषष्ट्या अधिकं शतद्वयम् — दो सौ से अधिक, अर्थात् २६२,
मुक्तानन्दादिभिः सद्भिः साधुभिः — मुक्तानन्द आदि सत्साधुओं द्वारा (यहाँ ‘आदि’ शब्द से गोपालानन्द, नित्यानन्द, ब्रह्मानन्द और शुकानन्द मुनियों का भी ग्रहण है, जैसा कि इस ग्रन्थ के अन्त में कहा जाएगा),
यथाश्रुतम् — जैसा श्रीहरि से सुना गया था, उसी के अनुसार,
श्रीहर्युक्तवचनश्रवणम् अनतिक्रम्य — श्रीहरि के वचनों के श्रवण का कोई अतिक्रमण किए बिना,
यथामनीषम् — अपनी-अपनी बुद्धि के अनुसार,
साधु सम्यक् यथातथा — सम्यक्, यथार्थ और उचित रूप से,
सर्वहिताय — सभी के कल्याण के लिए,
स्पष्टैः वर्णैः अक्षरैः — स्पष्ट अक्षरों में,
अलेखि — लिखे गए। ॥५॥
तावन्तीति।
शतानन्दमुनिः अहम् — मैं, शतानन्द मुनि,
तावन्ति वचनामृतानि — उतनी ही संख्या में, अर्थात् साठ से अधिक दो सौ (२६२) वचनामृत,
प्रभोः — जो काल, माया, अक्षर आदि के नियमन में समर्थ हैं,
तस्य श्रीहरेः — उन श्रीहरि की
निदेशेन — पूर्व में प्राप्त ग्रन्थ-रचना की आज्ञा के कारण,
तदीयतुष्ट्यै — उनकी प्रसन्नता के लिए तथा
श्रीहर्याश्रितसकलसद्भक्तजनप्रीत्यै — श्रीहरि के आश्रित समस्त सत्भक्तजनों की प्रीति हेतु,
सुसौष्ठवम् — उत्तम शब्द-सौन्दर्य से युक्त,
च औदार्यम् अर्थसंपत्तिः — तथा उदार और समृद्ध अर्थ-संपदा से सम्पन्न,
तन्मयैः प्रचुरसुसौष्ठवौदार्ययुक्तैः — ऐसे गुणों से परिपूर्ण,
सुपद्यैः — प्रायः अनुष्टुप् छन्द में रचित सुश्लोकों द्वारा,
स्फुटम् यथातथा — स्पष्ट और यथार्थ रूप से,
दृभामि — ‘हरिवाक्यसुधासिन्धु’ नामक ग्रन्थ के रूप में संकलित करता हूँ। ॥६॥
English commentary coming soon...