શ્રીહરિવાક્યસુધાસિંધુ - સદ્ગુરુ શ્રી શતાનંદ સ્વામી દ્વારા રચિત સંસ્કૃત રૂપાંતરણ
आत्मीयेनैव रूपेण जज्ञे हरिरिति श्रुतः । जन्मकर्माणि तस्यादौ कथयामि समासतः॥२८॥
महर्षयो मरीच्याद्या एकदा बदरीवने । दर्शनार्थम्पाजग्मुर्नरनारायणप्रभोः ॥२९॥
दृष्ट्वार्चयित्वा विभं ते निषेदुस्तदन्तिके । तानपृच्छन् नृणां क्षेमं प्रभुस्तद्धितकृत्तपाः ॥३०॥
प्रोचुस्ते जायमानं तमसुरोपद्रवं भुवि । तावद्धर्मोऽपि तत्रागात् सह मूर्त्या स्वभार्यया ॥३१॥
तं दृष्ट्वा सोद्धवस्तत्र निषण्णो भगवानपि । मानयित्वा स्वपितरम्पावेशयदासने ॥३२॥
उवाच च मुनिप्रोक्तं तस्मै तवृत्तमप्यसौ । तदादरात् स शुश्राव विप्रास्ते चाप्यनाकुलाः ॥३३॥
एवमेकाग्रचित्तेषु तेषु शृण्वत्सु तद्वचः । कैलासान्मुनिरभ्यागाद् दुर्वासास्तद्दिदृक्षया ॥३४॥
भगवन्मुखदत्ताक्षाः पिबन्तस्तद्वचोमृतम् । तमागतं न ददृशुस्ते समाधिस्थिता इव ॥३५॥
नारायणोऽपि नापश्यत् तं वार्तासक्तमानसः । तदा मुनिः स आत्मानं मेने तदपमानितम् ॥३६॥
मानभङ्गसमुद्भूतकोधाग्निविवशोऽथ तान् । सर्वानपि शशापासावूर्ध्वदोरुच्चतर्जनिः ॥३७।।
न सन्मानः कृतो यस्माद्भवद्भिरिह मे ततः । मानुष्य आसुरीं पीडां सर्वेऽपि प्राप्स्यथ द्रुतम् ॥३८॥
तच्छ्रुत्वा सहसा सर्वे बभूवुर्व्यग्रचेतसः । सद्यो धर्मः समुत्थाय तं प्रणम्याक्षमापयत् ॥३९॥
नापमानः कृतोऽस्माभिर्महर्षे । बुद्धिपूर्वकम् । मान्यस्य तव तस्मात् त्वं कर्तुमर्हस्यनुग्रहम् ॥४०॥
एवं सम्प्रार्थितो विप्रो धर्मेण विनयेन सः । उवाचानुग्रहं कुर्वन् शृणु धर्म । वचो मम ॥४१॥
अज्ञानजोऽपि मे शापो नान्यथा भविता क्वचित् । किन्तु नारायणो ह्येष ततो मोचयितास्तु वः ॥४२॥
मनुष्यभूतयोः पुत्रो दम्पत्योर्वामसौ भुवि । भूत्वा युवां मुनीश्वेतानसुरेभ्योऽविता ध्रुवम् ॥४३॥
इत्युक्त्वा स प्रभुं नत्वा पुनः श्वेताचलं ययौ । अथाह भगवान् भीतं शापादाकस्मिकाद् वृषम् ॥४४॥
निष्कारणमिमं शापं निवारयितुमीश्वरः । भवाम्यथापीच्छ्यासौ कारणात् स्वीकृतो मया ॥४५॥
अधर्मश्चासुरा अस्मिन् वर्षे प्राप्य बलं कलेः । सन्त्येधितास्तदुच्छेदः साम्प्रतं मे चिकीर्षितः ॥४६॥
यतोऽहं त्वत्सुतो भूत्वा तदुच्छेदं समाचरन् । मनुष्यभूतान् सर्वान वो रक्षिष्यामि न संशयः ॥४७॥
अतो यथेष्टं भुवि मानुषेषु सर्वेऽपि यूयं भवतापशङ्कम् ।
त एवमुक्ताः प्रभुणा वृषाद्याः प्रणम्य तं जन्म नरेष्वगृह्णन् ॥४८॥
શ્રીહરિ અવતારનું પ્રયોજન - બદ્રિકાશ્રમમાં ઋષિઓ ને થયેલ શ્રાપ#
આત્મીય (સ્વયંના દિવ્ય) સ્વરૂપે જ શ્રીહરિ પ્રગટ થયા — એમ શાસ્ત્રોમાં સાંભળવામાં આવે છે. તેમના અવતાર (જન્મ) અને કર્મોની વાત હવે આરંભમાં સંક્ષેપરૂપે કહું છું. ॥૨૮॥
મહર્ષિઓ
તેમને જોઈને પૂજા કરીને તે મહર્ષિઓ તેમની પાસે બેઠા, ત્યારે તે તપના હિત કરનારા પ્રભુએ તેમને મનુષ્યોના કલ્યાણ વિશે પૂછ્યું. ॥૩૦॥
તેમણે કહ્યું કે પૃથ્વી પર અસુરોનો ઉપદ્રવ જન્મ લઈ રહ્યો છે, તેટલામાં ત્યાં
તેમને જોઈને ભગવાન (ઉદ્ધવ સહીત) ત્યાં બેઠા હતા; તેમણે પોતાના
અને મુનિઓએ જે કહ્યું હતું તે વૃત્તાંત તેમને કહ્યો; ભગવાને તેને આદરપૂર્વક સાંભળ્યો અને તે બ્રાહ્મણો પણ નિર્વિકાર (શાંત) રહ્યા. ॥૩૩॥
આ પ્રમાણે એકાગ્ર ચિત્તવાળા તે સૌ વચન સાંભળી રહ્યા હતા ત્યારે
ભગવાનના શ્રીમુખ તરફ દ્રષ્ટિ સ્થિર કરીને તેમના વચનરૂપ અમૃતનું પાન કરતા તેઓ માનોકે સમાધિમાં સ્થિત હોય એમ, એ સમયે આવેલાને પણ જોઈ શક્યા નહીં. ॥૩૫॥
માનભંગથી ઉત્પન્ન થયેલા ક્રોધાગ્નિથી વશીભૂત થઈને તે મુનિએ ઊંચી ભુજા અને તર્જની ઊંચી કરીને તે સૌને શાપ આપ્યો. ॥૩૭॥
આપ સૌએ મારું અહીં યોગ્ય સન્માન ન કર્યું, તેથી આપ સૌને શીઘ્ર જ મનુષ્યરૂપે અસુરી પીડા પ્રાપ્ત થશે. ॥૩૮॥
તે સાંભળીને સૌ અચાનક વ્યગ્રચિત્ત થઈ ગયા, તરત જ ધર્મ ઊભા થઈને તેમને પ્રણામ કરીને ક્ષમા માગવા લાગ્યા. ॥૩૯॥
અમે મહર્ષિ ! જાણીજોઈને આપનું અપમાન નથી કર્યું. આપ માનનીય છો તેથી આપે અમારા પર અનુગ્રહ કરવો જોઈએ. ॥૪૦॥
આ પ્રમાણે ધર્મથી વિનયપૂર્વક પ્રાર્થના કરવામાં આવતાં તે બ્રાહ્મણે અનુગ્રહ કરતાં કહ્યું – હે ધર્મ ! મારા વચન સાંભળો. ॥૪૧॥
મારો આ શાપ અજ્ઞાનથી આપેલો હોવા છતાં ક્યાંય અન્યથા નહીં થાય, પરંતુ આ
આ
આમ કહીને તેમણે પ્રભુને નમન કરીને પુનઃ શ્વેત પર્વત પર જવા માટે પ્રયાણ કર્યું, ત્યારે ભગવાને શાપથી ભયભીત થયેલા ધર્મને કહ્યું. ॥૪૪॥
આ નિર્દોષ શાપને નિવારવા માટે હું ઈશ્વર છું છતાં આ શાપને મારી ઈચ્છાથી કારણસર સ્વીકાર કરું છું. ॥૪૫॥
આ વર્ષમાં અધર્મ અને અસુરો કલિયુગથી બળ પ્રાપ્ત કરીને વૃદ્ધિ પામશે તેમના ઉચ્છેદની હું હમણાં ઈચ્છા રાખું છું.॥૪૬॥
કારણ કે હું આપનો પુત્ર બનીને તેમનો ઉચ્છેદ કરીશ અને મનુષ્ય બનેલા આપ સૌને નિ:શંક રક્ષણ કરીશ. ॥૪૭॥
તેથી આપ સૌ ઈચ્છા પ્રમાણે પૃથ્વી પર મનુષ્યોમાં અવતરો અને ભય ન કરો. આમ પ્રભુથી કહેવામાં આવતાં ધર્મ આદિ સૌએ તેમને પ્રણામ કરીને મનુષ્યોમાં જન્મ ગ્રહણ કર્યો. ॥૪૮॥
श्रीहरि अवतार का प्रयोजन – बद्रिकाश्रम में ऋषियों को प्राप्त शाप#
आत्मीय (स्वयं के दिव्य) स्वरूप से ही श्रीहरि प्रकट हुए — ऐसा शास्त्रों में सुना जाता है। उनके अवतार (जन्म) और कर्मों का वर्णन अब आरम्भ में संक्षेप से करता हूँ। ॥२८॥
महर्षि
उन्हें देखकर पूजन करके वे महर्षि उनके समीप बैठ गए; तब तप के हित करने वाले उस प्रभु ने उनसे मनुष्यों के कल्याण के विषय में पूछा। ॥३०॥
उन्होंने कहा कि पृथ्वी पर असुरों का उपद्रव उत्पन्न हो रहा है; उसी समय वहाँ
उन्हें देखकर भगवान (उद्धव सहित) वहीं बैठे थे; उन्होंने अपने
और मुनियों ने जो कहा था वह वृत्तांत उन्हें कहा; भगवान ने उसे आदरपूर्वक सुना और वे ब्राह्मण भी निर्विकार (शांत) रहे। ॥३३॥
इस प्रकार एकाग्रचित्त होकर वे सब वचन सुन रहे थे, तभी
भगवान के श्रीमुख की ओर दृष्टि स्थिर करके उनके वचनरूप अमृत का पान करते हुए वे मानो समाधि में स्थित हों, ऐसे थे; उस समय आए हुए को भी वे देख न सके। ॥३५॥
मानभंग से उत्पन्न क्रोधाग्नि से वशीभूत होकर उस मुनि ने ऊँची भुजा और उठी हुई तर्जनी से उन सबको शाप दिया। ॥३७॥
आप लोगों ने यहाँ मेरा उचित सम्मान नहीं किया; इसलिए आप सबको शीघ्र ही मनुष्य रूप में असुरी पीड़ा प्राप्त होगी। ॥३८॥
यह सुनकर सभी अचानक व्यग्रचित्त हो गए; तभी धर्म उठकर उन्हें प्रणाम करके क्षमा याचना करने लगे। ॥३९॥
हे महर्षि! हमने जानबूझकर आपका अपमान नहीं किया। आप माननीय हैं, इसलिए कृपया हम पर अनुग्रह करें। ॥४०॥
इस प्रकार धर्म द्वारा विनयपूर्वक प्रार्थना किए जाने पर उस ब्राह्मण ने अनुग्रह करते हुए कहा — हे धर्म! मेरे वचन सुनो। ॥४१॥
मेरा यह शाप अज्ञानवश दिया गया होने पर भी कहीं अन्यथा नहीं होगा; किन्तु यह
यह श्रीनारायण इस
यह कहकर उन्होंने प्रभु को प्रणाम किया और पुनः श्वेत पर्वत की ओर प्रस्थान किया; तब भगवान ने शाप से भयभीत धर्म से कहा। ॥४४॥
इस निर्दोष शाप को रोकने में मैं ईश्वर होते हुए भी, इसे अपनी इच्छा से कारणवश स्वीकार करता हूँ। ॥४५॥
इस युग में अधर्म और असुर कलियुग से बल पाकर वृद्धि करेंगे; उनके उच्छेद की इच्छा अब मुझे है। ॥४६॥
क्योंकि मैं तुम्हारा पुत्र बनकर उनका उच्छेद करूँगा और मनुष्य बने तुम सबकी निःसंशय रक्षा करूँगा। ॥४७॥
अतः तुम सब निःसंकोच पृथ्वी पर मनुष्यों में अवतरित होओ और भय न करो। ऐसा प्रभु द्वारा कहे जाने पर धर्म आदि सभी ने उन्हें प्रणाम किया और मनुष्य लोक में जन्म ग्रहण किया। ॥४८॥
Purpose of Shri Hari’s Incarnation – The Curse Received by the Sages at Badrikashram#
Shri Hari is said in the scriptures to have manifested in His own intrinsic, divine form. I shall now briefly describe, at the outset, His incarnation (birth) and deeds. ॥28॥
Once, the great sages
After beholding Him and offering worship, the sages sat near Him; then the Lord, who acts for the welfare of austerity, asked them about the well-being of mankind. ॥30॥
They replied that demonic disturbances were arising on the earth; at that very moment
Seeing them, Bhagavan (together with Uddhava) was seated there; He honored His
The sages then narrated what they had spoken; Bhagavan listened to it attentively, and those Brahman sages remained calm and undisturbed. ॥33॥
While all of them, with one-pointed minds, were listening to these words,
Fixing their gaze upon the divine face of the Lord and drinking the nectar of His words, they appeared as though absorbed in samadhi; thus they did not notice the one who had arrived. ॥35॥
Overpowered by the fire of anger arising from wounded pride, the sage raised his arm and forefinger and pronounced a curse upon them all. ॥37॥
Since you did not offer me due honor here, you shall soon experience demonic suffering while living in human form. ॥38॥
Hearing this, all became suddenly distressed; immediately Dharma rose, bowed to the sage, and began to seek forgiveness. ॥39॥
O great sage! We did not knowingly insult you. You are worthy of honor; therefore, please bestow your grace upon us. ॥40॥
Thus, when earnestly prayed to by Dharma with humility, the Brahmana, granting grace, said — O Dharma, listen to my words. ॥41॥
Though this curse has been uttered by me out of ignorance, it shall not prove otherwise; yet this
This Sri Narayana, taking the form of the
Having said this, the sage bowed to the Lord and departed again for the White Mountain; then Bhagavan spoke to Dharma, who was fearful because of the curse. ॥44॥
Though I am the Lord capable of nullifying this faultless curse, I accept it willingly for a divine purpose. ॥45॥
In this age, unrighteousness and the demons shall gain strength through Kali and increase; their destruction is now My intent. ॥46॥
For I shall become your son, destroy them, and undoubtedly protect all of you who take human birth. ॥47॥
Therefore, all of you freely incarnate among human beings on earth without fear. Thus instructed by the Lord, Dharma and the others bowed to Him and accepted birth among mankind. ॥48॥
સેતુમાળા ટીકા - પ્રથમ આચાર્ય શ્રી રઘુવીરજી મહારાજ દ્વારા રચિત સંસ્કૃત ટીકા
आत्मीयेनेति । आत्मीयेन निजेन । रूपेणानन्तकन्दर्पदर्पहारिलावण्यार्णवेनाक्षरधामावस्थितेन सनातनेन दिव्यस्वरूपेणैव । हरिरिति हरिनाम्ना श्रुतो विख्यातः सन् । जज्ञे भक्तिधर्माभ्यां प्रादुर्बभूव इति सार्धत्रयाणामेकान्वयः । तस्य श्रीहरेः । जन्मकर्माणि प्रादुर्भावप्रकारं चरित्राणि चेत्यर्थः । आदौ प्रथमतः । समासतः सङ्केपेण । कथयामि ॥२८॥
तत्रादौ सनिमित्तं श्रीहरिप्रादुर्भावप्रकारमाह । महर्षय इत्यारभ्य आनन्द एव सर्वत्र तदाभूज्ञ्जगतीतले इत्यन्तसन्दर्भेण । एकदा कदाचित् । बदरीवने बदरीकाश्रमे । मरीच्याद्या मरीचिप्रभृतयः । महर्षयो महामुनयः । नरनारायणप्रभोनैष्ठिकेन्द्रनरनारायणभगवतः । दर्शनार्थं नृजन्मसफलतापूर्वकभारतवर्षगततीर्थयात्राफलरूपं समीक्षणं कर्तुमित्यर्थः । उपाजग्मुराययुः ॥२९॥
दृष्ट्वेति । ते महर्षयः । विभुं स्वाश्रितानन्तदुःखनिवर्तनसमर्थं श्रीनारायणम्। दृष्ट्वा समीक्ष्य । अर्चयित्वा यथालब्धोपचारैः पूजयित्वा । तदन्तिके श्रीनारायणपुरोवर्तिसमीपप्रदेशे । निषेदुः श्रीनारायणाज्ञयोपविविशुः । तेषां स्वाश्रितजनानां हितकृद्धितकारकं तपो यस्य स तथोक्तः । प्रभुः श्रीनारायणः । नृणां भारतवर्षवासिस्वाश्रितजनानाम् । क्षेमं कुशलम् । तान् महर्षीन् अपृच्छत् ॥३०॥
प्रोचुरिति । ते श्रीनारायणपृष्टा महर्षयः । भुवि भारतवर्ष भूमौ । जायमानमुत्पद्यमानम् । असुरोपद्रवमसुरांशगुरुनृपकृतं स्वाश्रितजनपिडनम् । तं श्रीनारायणम्। प्रोचुः कथयामासुः । तावत्तस्मिन् क्षणे एव । धर्मः साक्षात्स्वयंधर्मप्रजापतिरपि । मूर्त्या मूर्तिसंज्ञया । स्वभार्यया स्वपल्या । सह । तत्र श्रीनारायणसमीपे । दर्शनार्थमिति शेषः । अगादाजगाम ॥३१॥
तमिति । तत्र मुनिमण्डलमध्यगतासने। निषण्ण उपविष्टः। सोद्धव उद्धवेन सहितः । भगवान् श्रीनारायणोऽपि । तं स्वदर्शनार्थमागतम् । स्वपितरं स्वजनकं धर्मम् । दृष्ट्वा । मानयित्वा यथायोग्यं सभाजयित्वा । आसने तदुचितविष्टरे । उपावेशयदासयाञ्चके ॥३२॥
उवाचेति । असौ श्रीनारायणः। मुनिप्रोक्तं मरीच्यादिमुनिभिरात्मने प्रथमतः कथितम् । तद्भारतवर्षवासि-स्वभक्तजनानामसुरकृतोपद्रवरूपम् । वृत्तं वृत्तान्तम् । तस्मै धर्मदेवाय । उवाच सविस्तरं प्रोक्तवान् । स धर्मः । तच्छ्रीनारायणप्रोक्तं वृत्तान्तवचनम् । आदरात् । शुश्राव । चकारादुद्धवोऽपि शुश्रावेति योजनीयम् । ते श्रीनारायणपुरःप्रदेशोपविष्टाः । विप्रा मरीच्यादयो मुनयश्चापि । अनाकुला अव्यग्रमानसाः सन्तः इदं पदं वचनविपरिणामेन धर्मोद्धवयोरपि योजनीयम् । तत् । आदयत् । शुश्रुवुः । स्वप्रोक्तस्याप्यादरेण श्रवणप्रवृत्तिहेतुस्त्वतिश्रेष्ठस्वयं श्रीनारायणास्यपद्मोगतवचनामृतमिश्रणेन चमत्कारातिशय एवेति भावः ॥३३॥
एवमिति । एवममुनाप्रकारेण । तद्धचः श्रीनारायणवचनामृतम् । शृणवत्सु तेषु भक्तिधर्मोद्धवसहितेषु मरीच्यादिमुनिषु । एकाग्रचित्तेषु श्रीनारायणमुखपद्मनिर्यद्वचनसुधा श्रवणैकनिष्ठानाकुलमानसेषु सत्सु । दुर्वासाः । मुनिः । तद्दिदृक्षया श्रीनारायणदर्शनच्छ्या कैलासाच्छिवगिरेः सकाशात् । अभ्यागादागत्य मुनिपर्षदः पश्चात् श्रीनारायणाभिमुखं तस्थावित्यर्थः ॥३४॥
भगवदिति । भगवन्मुखे श्रीनारायणास्यपद्ये दत्तानि चन्द्रचकोरन्यायेनारोपितानि अक्षाणि नयनानि यैस्ते तथोक्ताः । तद्वचोऽमृतं श्रीनारायणवचनामृतम् । पिबन्तोऽत्यादरेणाकर्णयन्तः । ते धर्मादिसहिता मरीच्यायो मुनयः । समाधिस्थिताः पक्वसमाधिस्थिति प्राप्ता इव । आगतमन्तः प्रेरितश्रीनारायणेच्छ्या समायातम्। तं दुर्वाससं मुनिम् । न ददृशुर्न वीक्षाञ्चक्रिरे ॥३५॥
नारायणेति । नारायणः स्वयं श्रीनारायणो भगवानपि । वार्तायां वार्ताकरणे आसक्तं प्रसक्तमानसं यस्य स तथाभूतः सन् । तमागतं दुर्वाससं मुनिम् । नापश्यत् । तदा तस्मिन् समये । मुनिर्ऋषिवरः । स दुर्वासाः । आत्मानं स्वम् । तदपमानितं तैः कृतावमाननम् । मेने स्वचेतसि ज्ञातवान् ॥३६॥
मानेति । अथानन्तरम् । मानः स्वस्मिन् सर्वपूज्यत्वबुद्धिस्तस्य भङ्ग आमर्दनं तेन समुद्भूतः सम्यगुत्पन्नो यः क्रोधाग्निः कोपानलस्तेन विवशः परतन्त्रः । असौ दुर्वासामुनिः। ऊर्ध्व उच्चश्चासौ दोर्दक्षिणबाहुस्तस्मिन्नुच्चोन्नता तर्जनी प्रदेशिन्यङ्गुलिर्यस्य स तथाभूतः सन् । तान् सर्वानपि । शशाप ॥३७॥
शापमाह नेति । यस्माद्धेतोः । इह धर्मप्रवृत्तिहेतुभूतेऽस्मिन् स्थाने । भवद्भिर्नारायणादिभिर्युष्माभिः सर्वैः । मे मम । सन्मानः शिष्टाचारप्राप्ताभ्युत्थान पाद्यार्घ्यप्रदानरूपः सत्कारः । न कृतः । ततो हेतोः । सर्वेऽपि यूयम् । द्रुतं शीघ्रमेव । मानुष्ये मनुष्यभावे । आसुरीमसुरांशोत्पन्नगुरुनृपतिकृताम् । पीडां भर्त्सनताडनादिबाधाम् । प्राप्स्यथातिशयेन गमिष्यथ । दिव्यानामपि युष्माकमयुक्ता मनुष्यदेहप्राप्तिस्तत्र च दैत्यांशगुर्वादिकृतपीडाप्राप्तिश्चेति द्वयं मच्छापेन भवत्वित्यर्थः ॥३८॥
तदिति । तद्वज्रपातसन्निभं कोपनदुर्वासोमुनिवचनम् । श्रुत्वा । सहसा तूर्णमेव । सर्वे धर्मोद्धवादयः सकला अपि । व्यग्रचेतसः क्षुभितान्तःकरणाः । बभूवुः । ततः । धर्मः । सद्यस्तत्क्षणमेव । समुत्थायाभ्युत्थानं कृत्वा । तं दुर्वाससं मुनिम् । प्रणम्य साष्टाङ्ग नत्वा । अक्षमापयत् मृदुलवचनैः सान्त्वयाञ्चकार ॥३९॥ तदेवाह । नेति । हे महर्षे । यतः । अस्माभिः। मान्यस्य सर्वदासन्मानयोग्यस्य । तव । अपमानः । बुद्धिपूर्व ज्ञात्वैव । न कृतः । किन्तु नारायणोक्तवार्ताश्रवणैकाग्रमनस्तया तवागमनमविदित्वा जात इत्यर्थः । तस्माद्धेतोः । त्वम् । अनुग्रहं शापनिवारणरूपं प्रसादम् । कर्तुम् । अर्हसि योग्यो भवसि ॥४०॥
एवमिति । एवममुना प्रकारेण । धर्मेण कर्जा विनयेन करणेन । सम्प्रार्थितः । विप्रो नितान्तमानलोलुपो ब्राह्मणः । स दुर्वासाः । अनुग्रहम् । कुर्वन् सन् । उवाच । तदेवाह सपादद्वाभ्याम् । हे धर्म । मम । वचः । शृणु ॥४१॥
अज्ञानज इति । मे मम । शापः । अज्ञानजो भवत्स्थितमदागमनाज्ञानसम्भूतोऽपि । क्वचित् कदाचिदपि । अन्यथा मिथ्या । न भविता नैव भविष्यति । किन्तु । एष युष्मन्त्रयनगोचरतया वर्तमानः । नारायणः । ततो मच्छापात् । वो युष्माकम् । मोचयितोद्धारकारकः । अस्तु भवतात् । हि निश्चितमेव ॥४२॥
मनुष्येति । असौ श्रीनारायणः । भुवि पृथिव्याम् । मनुष्यभूतयोर्मनुष्यभावं प्राप्तयोः । दम्पत्योर्जायापत्योः । वां युवयोः । पुत्रः । भूत्वा । युवां भवन्तौ । एतान् । मुनीन् । चकारादुद्धवमपि । असुरेभ्यः । अविता रक्षिष्यति । ध्रुवं निश्चितमेव ॥४३॥
इतीति । इत्यमुना प्रकारेण । उक्त्वा। प्रभुं श्रीनारायणम्। नत्वा अभीवन्द्य। स दुर्वासामुनिः । पूनर्भूयोऽपि । श्वेताचलं कैलासाचलम् । ययौ। अथानन्तरम्। भगवान् श्रीनारायणः । आकस्मिकादकाण्डोत्पन्नात् । शापात् भीतमतिभयं प्राप्तम् । वृषं धर्मम्। आह प्रोक्तवान् ॥४४॥
तदाह साधैस्त्रिभिः । निष्कारणमिति । हे तात। अहम् । निष्कारणं निर्हेतुकम् । इमम् । शापम् । निवारयितुं निराकर्तुम् । ईश्वरः समर्थः । भवामि सर्वथास्मि । अथापि एवं सत्यपि । असौ शापः । मया । कारणाद्वक्ष्यमाणात् कस्माच्चन निमित्तात् । इच्छयैव । स्वीकृतोऽङ्गीकृतः ॥४५॥
कारणमाह । अधर्म इति । अस्मिन् वर्षे भरतखण्डे । अधर्मः । असुराश्च । कलेश्चतुर्थयुगस्य । बलम् प्राप्य । एधिता वृद्धि गताः । सन्ति । साम्प्रतमिदानिम् । तदुच्छेदोऽधर्मासुरविनाशः। मे मम । चिकीर्षितः कर्तुमिष्टो भवति ॥४६॥
अत इति । अतो हेतोः अहम्। त्वत्सुतो मनुष्यभावं प्राप्तस्य तव पुत्रः । भूत्वा । तदुच्छेदमधर्मासुरविनाशनम् । समाचरन् कुर्वन् सन् । मनुष्यभूतान् मनुष्यभावम् प्राप्तान् । सर्वान् । वो युष्मान् । रक्षिष्यामि असुरगुरुनृपकृतापद्भ्यस्त्रास्ये । न । संशयः ॥४७॥
अत इति । अतोऽस्माद्धेतोः। सर्वेऽपि। यूयम्। भुवि । मानुषेषु त्रैवर्णिकमनुष्येषु । यथेष्टं यथारुचि । अपशङ्क निःशङ्कं यथातथा। भवत उत्पद्यध्वम् । एवममुना प्रकारेण । प्रभुणा श्रीनारायणेन । उक्ताः । वृषाद्या धर्मादयः । ते सर्वेऽपि । तं श्रीनारायणम्। प्रणम्य। नरेषु भारतवर्षस्थत्रैवर्णिकजनेषु । जन्म । अगृह्णन् उपाददुः । अत्र महर्षयो मरीच्याद्या इत्यारभ्यातो यथेष्टमित्यन्तसन्दर्भस्यायमाशयः । श्रीमद्ब्रह्मपुराधिपतेः श्रीस्वामिनो भक्तिधर्माभ्यां प्रादुर्भविष्यतः श्रीहरेः प्रियैनैष्ठिकब्रह्मचारिसमानवेषतपो-निवृत्तधर्म-नैष्ठिकब्रह्मचर्यव्रतक्षमा-दयादिभिर्गुणैः स्वावतारनारायणर्षेरपि स्वतुल्यतया वर्तनशीलत्वात्तदभेदमङ्गीकृत्य तद्रूपेण श्रीहर्याविर्भावकथनमस्त्यन्यथात्रैवास्ति श्रीमति गोलोक इत्यारभ्यात्मीयेनैव रूपेण जज्ञे हरिरिति श्रुत इति पूर्वोक्तग्रन्थेन तथा हरिकृष्ण इति ख्यातः करिष्ये रक्षणं हि व इत्युत्तरग्रन्थस्थितेन वृन्दावने भक्तिधर्मावुद्दिश्य सम्प्रोक्तेन श्रीकृष्णवचनेन च सह विरोधः स्यादिति ॥४८॥
आत्मीयेनैव रूपेण जज्ञे हरिरिति श्रुतः।
પોતાના જ દિવ્ય સ્વરૂપથી જ જન્મ લીધો છે એવા હરિનું શ્રુતિમાં વર્ણન છે। અનંત કામદેવોના ઘમંડને હરી લેનારા સૌંદર્યના સમુદ્રવાળા, અક્ષરધામમાં સ્થિત, સનાતન હરિ નામથી જાણીતા છે। ભક્તિ અને ધર્મ દ્વારા પ્રકટ થયા છે એમ ત્રણ શ્લોકોનો એક અન્વય છે। તે શ્રીહરિના જન્મ અને કર્મોનું – એટલે પ્રકટ થવાનો પ્રકાર અને ચરિત્રોનું – પહેલાં સંક્ષેપમાં વર્ણન કરું છું ॥२८॥
तत्रादौ सनिमित्तं श्रीहरिप्रादुर्भावप्रकारमाह।
તેમાં પહેલાં કારણ સહિત શ્રીહરિના પ્રકટ થવાના પ્રકારને કહે છે। મહર્ષયઃથી શરૂ કરીને “આનંદ જ સર્વત્ર તે સમયે પૃથ્વી પર થયો” આ અંત સંદર્ભ સુધીનું વર્ણન છે। એક વખત મરીચિ આદિ મહર્ષિઓ બદરીકાશ્રમમાં નર-નારાયણ ભગવાનના નિષ્ઠાવાન દર્શન માટે – એટલે મનુષ્ય જન્મને સફળ કરનારા ભારતવર્ષના તીર્થયાત્રાના ફળરૂપ દર્શન કરવા માટે – આવ્યા અર્થાત્ ગયા ॥२९॥
दृष्ट्वार्चयित्वा विभं ते निषेदुस्तदन्तिके।
તે મહર્ષિઓએ સર્વવ્યાપી અને પોતાના આશ્રિતોના અનંત દુઃખ દૂર કરવામાં સમર્થ શ્રીનારાયણને જોઈને, ઉપલબ્ધ સામગ્રીથી પૂજા કરીને, તેમની પાસે શ્રીનારાયણની આજ્ઞાથી બેઠા। પોતાના આશ્રિત જનોનું હિત કરનાર તપવાળા પ્રભુ શ્રીનારાયણે ભારતવર્ષમાં રહેનારા પોતાના આશ્રિત જનોનું કુશળ-કલ્યાણ તે મહર્ષિઓ પાસેથી પૂછ્યું ॥३०॥
प्रोचुस्ते जायमानं तमसुरोपद्रवं भुवि।
શ્રીનારાયણ દ્વારા પૂછાયેલા તે મહર્ષિઓએ ભારતવર્ષની ભૂમિ પર ઉત્પન્ન થઈ રહેલા અસુરોના અંશવાળા ગુરુ-રાજાઓ દ્વારા કરાયેલા પોતાના આશ્રિત જનોના પીડન વિશે શ્રીનારાયણને જણાવ્યું। તે જ ક્ષણે સ્વયં ધર્મ પ્રજાપતિ પણ મૂર્તિ નામવાળી પોતાની પત્ની સાથે ત્યાં શ્રીનારાયણની પાસે દર્શન માટે આવી ગયા ॥३१॥
तं दृष्ट्वा सोद्धवस्तत्र निषण्णो भगवानपि।
ત્યાં મુનિ મંડળના મધ્ય આસન પર ઉદ્ધવ સાથે વિરાજમાન ભગવાન શ્રીનારાયણે પણ પોતાના દર્શન માટે આવેલા પોતાના પિતા જનક ધર્મને જોઈને યોગ્ય રીતે આદર-સન્માન કરીને તેમને તેમના યોગ્ય આસન પર બેસાડ્યા ॥३२॥
उवाच च मुनिप्रोक्तं तस्मै तवृत्तमप्यसौ।
શ્રીનારાયણે મરીચિ આદિ મુનિઓ દ્વારા પહેલાં કહેલું ભારતવર્ષ વાસી પોતાના ભક્ત જનોનું અસુરો દ્વારા કરાયેલો ઉપદ્રવરૂપ વૃત્તાંત વિસ્તારથી ધર્મદેવને કહ્યું। તે ધર્મે શ્રીનારાયણ દ્વારા કહેલા તે વૃત્તાંત વચનને આદરથી સાંભળ્યું (ચકારથી ઉદ્ધવે પણ સાંભળ્યું એમ જોડવું)। શ્રીનારાયણની આગળના સ્થાન પર બેઠેલા મરીચિ આદિ બ્રાહ્મણ મુનિઓએ પણ અવ્યગ્ર મનથી તે આદરથી સાંભળ્યું। પોતાના કહેલાનું પણ આદરથી સાંભળવાનું કારણ અત્યંત શ્રેષ્ઠ સ્વયં શ્રીનારાયણના મુખ કમળથી નીકળેલા વચન અમૃતના મિશ્રણથી થતા ચમત્કારની વધારે છે એમ જ ભાવ છે ॥३३॥
एवमेकाग्रचित्तेषु तेषु शृण्वत्सु तद्वचः।
આ રીતે ભક્તિ ધર્મ ઉદ્ધવ સહિત મરીચિ આદિ મુનિઓ એકાગ્ર અવ્યાકુળ મનથી શ્રીનારાયણના વચન અમૃતને સાંભળતા હતા ત્યારે દુર્વાસા મુનિ શ્રીનારાયણના દર્શનની ઇચ્છાથી કૈલાસ પર્વતથી આવીને મુનિ પરિષદની પાછળ શ્રીનારાયણ તરફ ઊભા રહ્યા ॥३४॥
भगवन्मुखदत्ताक्षाः पिबन्तस्तद्वचोमृतम्।
શ્રીનારાયણના મુખ કમળમાં ચંદ્ર-ચકોર ન્યાયથી આરોપિત નેત્રવાળા ધર્મ આદિ સહિત મરીચિ આદિ મુનિઓ અત્યંત આદરથી શ્રીનારાયણના વચન અમૃતને પીતા હતા અને પાકેલી સમાધિ સ્થિતિ જેવા થઈને અંતઃ પ્રેરિત શ્રીનારાયણ ઇચ્છાથી આવેલા દુર્વાસા મુનિને જોયા નહીં ॥३५॥
नारायणोऽपि नापश्यत् तं वार्तासक्तमानसः।
સ્વયં શ્રીનારાયણ ભગવાન પણ વાતચીતમાં લાગેલા મનવાળા હોવાથી આવેલા દુર્વાસા મુનિને જોયા નહીં। તે સમયે ઋષિવર દુર્વાસાએ પોતાને તેમના દ્વારા અપમાનિત માની લીધું ॥३६॥
मानभङ्गसमुद्भूतकोधाग्निविवशोऽथ तान्।
પછી પોતાનામાં સર્વપૂજ્યતાની બુદ્ધિના ભંગથી ઉત્પન્ન થયેલી ક્રોધની આગથી વશીભૂત થયેલા દુર્વાસા મુનિએ ઊંચા દાહિના બાહુ અને તર્જની ઊંચી કરીને તે સૌને શાપ આપ્યો ॥३७॥
न सन्मानः कृतो यस्माद्भवद्भिरिह मे ततः।
જે કારણથી અહીં ધર્મ પ્રવૃત્તિના કારણવાળા આ સ્થાનમાં નારાયણ આદિ તમે સૌએ મારું શિષ્ટાચારથી પ્રાપ્ત ઊભા થવું, પાદ્ય-અર્ઘ્ય આપવું વગેરે રૂપ યોગ્ય સન્માન કર્યું નહીં, તે કારણથી તમે સૌ શીઘ્ર જ મનુષ્ય થવામાં અને અસુર અંશથી ઉત્પન્ન ગુરુ-રાજા દ્વારા ડામવું-મારવું વગેરે પીડા પ્રાપ્ત કરશો। દિવ્ય હોવા છતાં તમારી અયોગ્ય મનુષ્ય દેહ પ્રાપ્તિ અને ત્યાં દૈત્ય અંશ ગુરુ વગેરે દ્વારા પીડા પ્રાપ્તિ – આ બંને મારા શાપથી થાઓ એમ અર્થ છે ॥३८॥
तच्छ्रुत्वा सहसा सर्वे बभूवुर्व्यग्रचेतसः।
વજ્ર પડવા જેવું ક્રોધિત દુર્વાસા મુનિનું વચન સાંભળીને ધર્મ ઉદ્ધવ આદિ સૌ અચાનક વ્યગ્ર ચિત્ત અને ક્ષુબ્ધ અંતઃકરણવાળા થઈ ગયા। તે પછી ધર્મે તે જ ક્ષણે ઊભા થઈને દુર્વાસા મુનિને સાષ્ટાંગ પ્રણામ કરીને કોમળ વચનોથી ક્ષમા માગી અને સાંત્વના આપી ॥३९॥
नापमानः कृतोऽस्माभिर्महर्षे बुद्धिपूर्वकम्।
હે મહર્ષિ! અમે હંમેશા સન્માન યોગ્ય તમારું જાણીને અપમાન કર્યું નથી, પરંતુ નારાયણ કહેલી વાર્તા સાંભળવામાં એકાગ્ર મનથી તમારા આવવાની ખબર ન પડવાથી થયું છે એમ અર્થ છે। તે કારણથી તમે શાપ નિવારણ રૂપ કૃપા કરવામાં યોગ્ય છો ॥४०॥
एवं सम्प्रार्थितो विप्रो धर्मेण विनयेन सः।
આ રીતે ધર્મ દ્વારા હાથ જોડીને વિનયથી પ્રાર્થના કરાયેલા અત્યંત માન લોભી બ્રાહ્મણ દુર્વાસાએ અનુગ્રહ કરતાં કહ્યું – હે ધર્મ! મારા વચન સાંભળો ॥४१॥
अज्ञानजोऽपि मे शापो नान्यथा भविता क्वचित्।
મારો શાપ તમારા ન આવવાના અજ્ઞાનથી ઉત્પન્ન થયો હોવા છતાં ક્યારેય અસત્ય નહીં થાય। પરંતુ તમે ત્રણના ગોચર ન હોવાથી વર્તમાન નારાયણ તમારું મારા શાપથી મોક્ષ-ઉદ્ધાર કરશે જ નિશ્ચિત ॥४२॥
मनुष्यभूतयोः पुत्रो दम्पत्योर्वामसौ भुवि।
આ શ્રીનારાયણ પૃથ્વી પર મનુષ્ય ભાવ પ્રાપ્ત તમે બંને દંપતિનો પુત્ર થઈને તમે બંનેને અને આ મુનિઓને (ચકારથી ઉદ્ધવને પણ) અસુરોથી નિશ્ચિત રક્ષા કરશે ॥४३॥
इत्युक्त्वा स प्रभुं नत्वा पुनः श्वेताचलं ययौ।
આ રીતે કહીને દુર્વાસા મુનિએ પ્રભુ શ્રીનારાયણને નમસ્કાર-વંદના કરીને ફરી કૈલાસ પર્વત પર ગયા। પછી ભગવાન શ્રીનારાયણે કારણ વગર ઉત્પન્ન શાપથી અત્યંત ભય પામેલા ધર્મને કહ્યું ॥४४॥
निष्कारणमिमं शापं निवारयितुमीश्वरः।
હે તાત! હું કારણ-હેતુ વગરના આ શાપને નિવારણ-નિરસ્ત કરવામાં સર્વથા સમર્થ ઈશ્વર છું છતાં કહેવાના કોઈ કારણથી ઇચ્છાથી જ આ શાપ સ્વીકાર કર્યો છે ॥४५॥
अधर्मश्चासुरा अस्मिन् वर्षे प्राप्य बलं कलेः।
આ ભરતખંડમાં અધર્મ અને અસુરો કલિ યુગથી બળ પ્રાપ્ત કરીને વૃદ્ધિ પામ્યા છે। હમણાં આ સમયે તેમના વિનાશનો ઉચ્છેદ કરવાની મારી ઇચ્છા છે ॥४६॥
यतोऽहं त्वत्सुतो भूत्वा तदुच्छेदं समाचरन्।
આ કારણથી હું મનુષ્ય ભાવ પ્રાપ્ત તમારો પુત્ર થઈને તે અધર્મ-અસુર વિનાશ સારી રીતે કરતા હોય મનુષ્ય બનેલા તમે સૌને અસુર ગુરુ રાજા દ્વારા થતી આપદથી રક્ષા કરીશ – કોઈ સંશય નથી ॥४७॥
अतो यथेष्टं भुवि मानुषेषु सर्वेऽपि यूयं भवतापशङ्कम्।
આ કારણથી તમે સૌ પૃથ્વી પર ત્રણ વર્ણવાળા મનુષ્યોમાં જેવી ઇચ્છા-રુચિ હોય તેવા નિઃશંક થઈને ઉત્પન્ન થાઓ। આ રીતે પ્રભુ શ્રીનારાયણ દ્વારા કહેવાયેલા ધર્મ આદિ સૌએ તેમને પ્રણામ કરીને ભારતવર્ષમાં ત્રણ વર્ણવાળા જનોમાં જન્મ ગ્રહણ કર્યો। અહીં મરીચિ આદિ મહર્ષિઓથી શરૂ કરીને જેવી ઇચ્છા સુધીના સંદર્ભનો આ આશય છે કે
आत्मीयेनैव रूपेण जज्ञे हरिरिति श्रुतः।
अपने ही दिव्य स्वरूप से जन्म लेने वाले हरि का श्रुति में वर्णन है। अनंत कामदेवों के घमंड को हर लेने वाले सौंदर्य के समुद्र वाले, अक्षरधाम में स्थित, सनातन हरि नाम से प्रसिद्ध हैं। भक्ति और धर्म के द्वारा प्रकट हुए हैं – ऐसा तीन श्लोकों का एक अन्वय है। उन श्रीहरि के जन्म और कर्मों का – अर्थात् प्रकट होने का प्रकार और चरित्रों का – पहले संक्षेप में वर्णन करता हूँ ॥२८॥
तत्रादौ सनिमित्तं श्रीहरिप्रादुर्भावप्रकारमाह।
उसमें पहले कारण सहित श्रीहरि के प्रकट होने के प्रकार को बताते हैं। “महर्षयः” से शुरू करके “आनंद ही सर्वत्र उस समय पृथ्वी पर हुआ” तक का संदर्भ है। एक बार मरीचि आदि महर्षि बदरिकाश्रम में नर-नारायण भगवान के निष्ठावान दर्शन के लिए – अर्थात् मनुष्य जन्म को सफल करने वाली भारतवर्ष की तीर्थयात्रा के फल रूप दर्शन करने के लिए – आए अर्थात् गए ॥२९॥
दृष्ट्वार्चयित्वा विभं ते निषेदुस्तदन्तिके।
उन महर्षियों ने सर्वव्यापी और अपने आश्रितों के अनंत दुःख दूर करने में समर्थ श्रीनारायण को देखकर उपलब्ध सामग्री से पूजा करके उनके पास श्रीनारायण की आज्ञा से बैठ गए। अपने आश्रित जनों का हित करने वाले तप वाले प्रभु श्रीनारायण ने भारतवर्ष में रहने वाले अपने आश्रित जनों का कुशल-कल्याण उन महर्षियों से पूछा ॥३०॥
प्रोचुस्ते जायमानं तमसुरोपद्रवं भुवि।
श्रीनारायण द्वारा पूछे गए उन महर्षियों ने भारतवर्ष की भूमि पर उत्पन्न हो रहे असुरों के अंश वाले गुरु-राजाओं द्वारा किए गए अपने आश्रित जनों के पीड़न के बारे में श्रीनारायण को बताया। उसी क्षण स्वयं धर्म प्रजापति भी मूर्ति नाम वाली अपनी पत्नी के साथ वहाँ श्रीनारायण के पास दर्शन के लिए आ गए ॥३१॥
तं दृष्ट्वा सोद्धवस्तत्र निषण्णो भगवानपि।
वहाँ मुनि मंडल के मध्य आसन पर उद्धव सहित विराजमान भगवान श्रीनारायण ने भी अपने दर्शन के लिए आए अपने पिता जनक धर्म को देखकर योग्य रूप से आदर-सम्मान करके उन्हें उनके योग्य आसन पर बिठाया ॥३२॥
उवाच च मुनिप्रोक्तं तस्मै तवृत्तमप्यसौ।
श्रीनारायण ने मरीचि आदि मुनियों द्वारा पहले बताई गई भारतवर्ष वासियों अपने भक्त जनों का असुरों द्वारा किया गया उपद्रव रूप घटना को विस्तार से धर्मदेव को कहा। उस धर्म ने श्रीनारायण द्वारा कहा गया वह वृत्तांत वचन आदर से सुना (चकार से उद्धव ने भी सुना ऐसा जोड़ें)। श्रीनारायण के सामने के स्थान पर बैठे मरीचि आदि ब्राह्मण मुनियों ने भी अव्यग्र मन से उसे आदर से सुना। अपने कहे हुए का भी आदर से सुनने का कारण अत्यंत श्रेष्ठ स्वयं श्रीनारायण के मुख कमल से निकले वचन अमृत के मिश्रण से होने वाला चमत्कार की अधिकता ही है – ऐसा भाव है ॥३३॥
एवमेकाग्रचित्तेषु तेषु शृण्वत्सु तद्वचः।
इस प्रकार भक्ति धर्म उद्धव सहित मरीचि आदि मुनि एकाग्र अव्याकुल मन से श्रीनारायण के वचन अमृत को सुन रहे थे तब दुर्वासा मुनि श्रीनारायण दर्शन की इच्छा से कैलास पर्वत से आकर मुनि परिषद के पीछे श्रीनारायण की ओर खड़े हो गए ॥३४॥
भगवन्मुखदत्ताक्षाः पिबन्तस्तद्वचोमृतम्।
श्रीनारायण के मुख कमल में चंद्र-चकोर न्याय से आरोपित नेत्र वाले धर्म आदि सहित मरीचि आदि मुनि अत्यंत आदर से श्रीनारायण के वचन अमृत को पी रहे थे और पकी हुई समाधि स्थिति जैसे होकर अंतः प्रेरित श्रीनारायण इच्छा से आए दुर्वासा मुनि को देखा नहीं ॥३५॥
नारायणोऽपि नापश्यत् तं वार्तासक्तमानसः।
स्वयं श्रीनारायण भगवान भी वार्ता में लगे मन वाले होने से आए दुर्वासा मुनि को देखा नहीं। उस समय ऋषिवर दुर्वासा ने खुद को उनके द्वारा अपमानित माना ॥३६॥
मानभङ्गसमुद्भूतकोधाग्निविवशोऽथ तान्।
फिर अपने में सर्वपूज्यता की बुद्धि के भंग से उत्पन्न क्रोध की आग से विवश हुए दुर्वासा मुनि ने ऊँचे दाहिने बाहु और तर्जनी ऊँची करके उन सबको शाप दिया ॥३७॥
न सन्मानः कृतो यस्माद्भवद्भिरिह मे ततः।
जिस कारण से यहाँ धर्म प्रवृत्ति के कारण वाले इस स्थान में नारायण आदि आप सबने मेरा शिष्टाचार से प्राप्त उठना, पाद्य-अर्घ्य देना आदि रूप योग्य सम्मान नहीं किया, उस कारण से आप सब शीघ्र मनुष्य होने में और असुर अंश से उत्पन्न गुरु-राजा द्वारा डाँटना-मारना आदि पीड़ा प्राप्त करेंगे। दिव्य होने पर भी आपकी अनुचित मनुष्य देह प्राप्ति और वहाँ दैत्य अंश गुरु आदि द्वारा पीड़ा प्राप्ति – ये दोनों मेरे शाप से हों ऐसा अर्थ है ॥३८॥
तच्छ्रुत्वा सहसा सर्वे बभूवुर्व्यग्रचेतसः।
वज्र गिरने जैसे क्रोधित दुर्वासा मुनि के वचन सुनकर धर्म उद्धव आदि सब अचानक व्यग्र चित्त और क्षुब्ध अंतःकरण वाले हो गए। फिर धर्म ने उसी क्षण उठकर दुर्वासा मुनि को साष्टांग प्रणाम करके कोमल वचनों से क्षमा माँगी और सांत्वना दी ॥३९॥
नापमानः कृतोऽस्माभिर्महर्षे बुद्धिपूर्वकम्।
हे महर्षि! हमने सर्वदा सम्मान योग्य आपके अपमान को जानबूझकर नहीं किया, किंतु नारायण कही वार्ता सुनने में एकाग्र मन से आपके आने का पता नहीं चला इस कारण हुआ है। इसलिए आप शाप निवारण रूप कृपा करने में योग्य हैं ॥४०॥
एवं सम्प्रार्थितो विप्रो धर्मेण विनयेन सः।
इस प्रकार धर्म द्वारा हाथ जोड़कर विनय से प्रार्थना किए गए अत्यंत मान लोलुप ब्राह्मण दुर्वासा ने अनुग्रह करते हुए कहा – हे धर्म! मेरे वचन सुनो ॥४१॥
अज्ञानजोऽपि मे शापो नान्यथा भविता क्वचित्।
मेरा शाप आपके न आने के अज्ञान से उत्पन्न हुआ होने पर भी कभी असत्य नहीं होगा। किंतु आप तीनों के गोचर न होने से वर्तमान नारायण मेरे शाप से आपका मोक्ष-उद्धार निश्चित करेगा ॥४२॥
मनुष्यभूतयोः पुत्रो दम्पत्योर्वामसौ भुवि।
यह श्रीनारायण पृथ्वी पर मनुष्य भाव प्राप्त आप दोनों दंपति का पुत्र होकर आप दोनों को और इन मुनियों को (चकार से उद्धव को भी) असुरों से निश्चित रक्षा करेगा ॥४३॥
इत्युक्त्वा स प्रभुं नत्वा पुनः श्वेताचलं ययौ।
इस प्रकार कहकर दुर्वासा मुनि ने प्रभु श्रीनारायण को नमस्कार-वंदना करके फिर कैलास पर्वत पर गए। फिर भगवान श्रीनारायण ने कारण रहित उत्पन्न शाप से अत्यंत भयभीत धर्म को कहा ॥४४॥
निष्कारणमिमं शापं निवारयितुमीश्वरः।
हे तात! मैं कारण-हेतु रहित इस शाप को निवारण करने में सर्वथा समर्थ ईश्वर हूँ फिर भी कहे जाने वाले किसी कारण से इच्छा से ही इस शाप को स्वीकार किया है ॥४५॥
अधर्मश्चासुरा अस्मिन् वर्षे प्राप्य बलं कलेः।
इस भरतखंड में अधर्म और असुर कलि युग से बल प्राप्त करके बढ़ गए हैं। अब इस समय उनके विनाश का उच्छेद करने की मेरी इच्छा है ॥४६॥
यतोऽहं त्वत्सुतो भूत्वा तदुच्छेदं समाचरन्।
इस कारण से मैं मनुष्य भाव प्राप्त आपके पुत्र होकर वह अधर्म-असुर विनाश अच्छी तरह करते हुए मनुष्य बने आप सबको असुर गुरु राजा द्वारा होने वाली आपद से रक्षा करूँगा – कोई संशय नहीं ॥४७॥
अतो यथेष्टं भुवि मानुषेषु सर्वेऽपि यूयं भवतापशङ्कम्।
इस कारण से आप सब पृथ्वी पर तीन वर्ण वाले मनुष्यों में जैसी इच्छा-रुचि हो वैसी निःशंक होकर उत्पन्न हो जाओ। इस प्रकार प्रभु श्रीनारायण द्वारा कहे गए धर्म आदि सबने उन्हें प्रणाम करके भारतवर्ष में तीन वर्ण वाले जनों में जन्म ग्रहण किया। यहाँ मरीचि आदि महर्षियों से शुरू करके जैसी इच्छा तक संदर्भ का यह आशय है कि श्रीमद् ब्रह्मपुर के अधिपति श्री स्वामी के भक्ति-धर्म से प्रकट होने वाले श्रीहरि के प्रिय निष्ठावान ब्रह्मचारी समान वेष, तप, निवृत्त धर्म, निष्ठावान ब्रह्मचर्य व्रत, क्षमा-दया आदि गुणों से अपने अवतार नारायण ऋषि के भी अपने समान व्यवहार की शीलता से उनका अभेद स्वीकार करके उस रूप से श्रीहरि के आविर्भाव का कथन है। अन्यथा यहाँ ही श्री गोलोक से शुरू करके “अपने ही रूप से जन्मे हरि” ऐसा श्रुति में कहा गया पूर्वोक्त ग्रंथ से तथा “हरि कृष्ण ऐसा ख्यात होगा, आपकी रक्षा ही करूँगा” ऐसा उत्तर ग्रंथ में वृंदावन में भक्ति-धर्म को उद्देश्य करके कहे गए श्रीकृष्ण वचन से विरोध हो जाता ॥४८॥
आत्मीयेनैव रूपेण जज्ञे हरिरिति श्रुतः।
It is described in the scriptures that Hari took birth in His own divine form. He is the ocean of beauty that vanquishes the pride of countless Cupids, resides in Akshardham, is eternal, and is known by the name Hari. He manifested through bhakti and dharma – this is the combined meaning of the three verses. I shall first briefly describe the birth and deeds of that Sri Hari – meaning His manner of appearance and pastimes ॥28॥
तत्रादौ सनिमित्तं श्रीहरिप्रादुर्भावप्रकारमाह।
First, it describes the reason and manner of Sri Hari’s appearance. From “maharsayah” up to the context ending with “ananda alone prevailed everywhere on earth at that time”. Once, sages like Marichi went to Badarikashrama for the devoted darshan of Nar-Narayan Bhagavan – that is, to have darshan that makes human birth successful, the fruit of pilgrimage in Bharatvarsha ॥29॥
दृष्ट्वार्चयित्वा विभं ते निषेदुस्तदन्तिके।
Those great sages saw the all-pervading Sri Narayana, who is capable of removing the infinite sorrows of His dependents, worshipped Him with available articles, and sat near Him by Sri Narayana’s command. The Lord Sri Narayana, whose penance benefits His dependents, inquired from those great sages about the welfare of the people living in Bharatvarsha who are His dependents ॥30॥
प्रोचुस्ते जायमानं तमसुरोपद्रवं भुवि।
Those great sages questioned by Sri Narayana told Him about the torment of their dependent people caused by kings with asura traits arising on the land of Bharatvarsha. At that very moment, Dharma himself, the Prajapati, arrived there near Sri Narayana along with his wife named Murti for darshan ॥31॥
तं दृष्ट्वा सोद्धवस्तत्र निषण्णो भगवानपि।
There, Lord Sri Narayana, seated on the central seat in the assembly of sages along with Uddhava, saw His father (creator) Dharma who had come for His darshan, honored him appropriately, and seated him on a suitable seat ॥32॥
उवाच च मुनिप्रोक्तं तस्मै तवृत्तमप्यसौ।
Sri Narayana told Dharma in detail the incident of torment by asuras upon the devotees living in Bharatvarsha that the sages like Marichi had first told Him. Dharma listened with respect to that account spoken by Sri Narayana (from “ca” it should be connected that Uddhava also listened). The brahmin sages like Marichi seated in front of Sri Narayana also listened undisturbed and with respect. The reason for listening even to one’s own words with respect is the extraordinary wonder created by the mixture of nectar-like words coming from the supreme Lord Sri Narayana’s lotus mouth itself – this is the sentiment ॥33॥
एवमेकाग्रचित्तेषु तेषु शृण्वत्सु तद्वचः।
In this way, while bhakti, dharma, Uddhava, and sages like Marichi were listening with one-pointed undisturbed mind to Sri Narayana’s nectar-like words, sage Durvasa came from Kailasa mountain desiring to see Sri Narayana and stood behind the sage assembly facing Sri Narayana ॥34॥
भगवन्मुखदत्ताक्षाः पिबन्तस्तद्वचोमृतम्।
Sages like Marichi along with dharma etc., who had fixed their eyes on Sri Narayana’s lotus mouth like the chakora bird on the moon, were drinking with great reverence the nectar of Sri Narayana’s words and, as if in deep samadhi, did not see the sage Durvasa who had come by the inner inspiration of Sri Narayana’s will ॥35॥
नारायणोऽपि नापश्यत् तं वार्तासक्तमानसः।
Even Lord Sri Narayana Himself, with mind absorbed in conversation, did not see the arrived Durvasa. At that time, the great sage Durvasa considered himself insulted by them ॥36॥
मानभङ्गसमुद्भूतकोधाग्निविवशोऽथ तान्।
Then, overpowered by the fire of anger born from the breaking of his pride of being universally worshipful, sage Durvasa raised his right arm high with the index finger pointed and cursed them all ॥37॥
न सन्मानः कृतो यस्माद्भवद्भिरिह मे ततः।
Because you all, including Narayana, did not give me proper respect here in this place conducive to dharma – rising, offering padya-arghya etc. as per etiquette – therefore all of you will soon suffer torment in human birth and from kings born of asura parts – scolding, beating etc. Even though divine, your improper attainment of human body and there torment by kings with daitya traits – both these will happen by my curse – this is the meaning ॥38॥
तच्छ्रुत्वा सहसा सर्वे बभूवुर्व्यग्रचेतसः।
Hearing that thunderbolt-like angry words of Durvasa, all including dharma and Uddhava suddenly became anxious-minded and disturbed at heart. Then dharma immediately stood up, offered obeisance to Durvasa with eight-limbed prostration, and began pleading forgiveness with gentle words and consoling him ॥39॥
नापमानः कृतोऽस्माभिर्महर्षे बुद्धिपूर्वकम्।
O great sage! We did not intentionally insult you who are always worthy of respect, but due to one-pointed mind in listening to Narayana’s words, your arrival went unnoticed – this is the meaning. Therefore, you are fit to show grace by removing the curse ॥40॥
एवं सम्प्रार्थितो विप्रो धर्मेण विनयेन सः।
Thus humbly prayed by dharma with folded hands, the extremely pride-craving brahmin Durvasa showed grace and said – O dharma! Listen to my words ॥41॥
अज्ञानजोऽपि मे शापो नान्यथा भविता क्वचित्।
My curse, though born of ignorance of your non-arrival, will never become false. But this Narayana, who is beyond the reach of you three, will certainly deliver you from my curse ॥42॥
मनुष्यभूतयोः पुत्रो दम्पत्योर्वामसौ भुवि।
This Sri Narayana, becoming the son of you both couple who have attained human form on earth, will definitely protect you both and these sages (and from “ca” Uddhava also) from asuras ॥43॥
इत्युक्त्वा स प्रभुं नत्वा पुनः श्वेताचलं ययौ।
Saying thus, sage Durvasa bowed to the Lord Sri Narayana and again went to Kailasa mountain. Then Lord Sri Narayana spoke to dharma who was extremely frightened by the sudden curse ॥44॥
निष्कारणमिमं शापं निवारयितुमीश्वरः।
O father! Though I am the Lord fully capable of nullifying this causeless curse, yet I accept this curse by My own will for a certain reason to be stated ॥45॥
अधर्मश्चासुरा अस्मिन् वर्षे प्राप्य बलं कलेः।
In this Bharatkhanda, adharma and asuras have gained strength from Kali and increased. Now at this time, I desire their complete destruction ॥46॥
यतोऽहं त्वत्सुतो भूत्वा तदुच्छेदं समाचरन्।
For this reason, becoming your son in human form, I shall thoroughly destroy adharma and asuras and protect all of you who have become human from calamities caused by asura gurus and kings – no doubt ॥47॥
अतो यथेष्टं भुवि मानुषेषु सर्वेऽपि यूयं भवतापशङ्कम्।
Therefore, all of you fearlessly take birth as desired among the three-varna humans on earth. Thus addressed by Lord Sri Narayana, dharma and others bowed to Him and took birth among the three-varna people in Bharatvarsha. Here, from sages like Marichi to “as desired”, the intent of the context is that the appearance of Sri Hari, who will manifest through bhakti and dharma of the lord of Srimad Brahmapur Sri Swaminarayan, is described in that form accepting non-difference due to similar conduct with His own avatara Narayana Rishi possessing qualities like beloved steadfast celibate-like attire, penance, detached dharma, steadfast celibacy vow, forgiveness, compassion etc. Otherwise, starting from Sri Goloka here itself “Hari took birth in His own form” as stated in the earlier text